पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगकाण्डः 24॥ ऽसंभाव्यंव, विरोषात् । अथ उमयोरभिप्रायं नानुवर्तते, यादृशं वस्तु उभयोरभिप्रेत ततोऽन्यथैव स्यात् । तथेमयोरप्यनीश्वरस्त्वं स्यात् । अथोच्येत-स्यादेवं यथैकमत्ये न हेतुरस्ति ; न त्वेवम् । अनैकमत्ये हीश्वराणां परस्परविरोधात् कार्यं न सिध्येत् । ततश्च कार्मसिद्धिरेव तेषामैकमत्ये हेतुः । भवति च कार्यसिद्धये बहूनामेकमत्यम्, यया व्यवहारादिषु परिषद इति चेत्; तन्न ; एवं हि प्रत्येकमनीश्वरत्वं स्यात् । एतच कर्महेतुकेऽप्यैकमत्ये तुल्यम् । अय पूर्वोक्तविरोधामावाय पर्यायेण तेषामीश्वरत्वमुच्यते, ततो यस्यैश्वर्यमुपरतं तदीयस्यैश्वर्वलक्षणस्य मोक्ष स्यान्तवच्वं स्यात् । अनन्तश्चासौ, अपुनरावृत्तिश्रुतेः । इतश्च न ब्रह्म- तुल्यमैश्वर्यं मुक्तानाम्, यतो ब्रह्म जगत्सृजति न मुक्ताः । ते तु सृष्टयुत्तरकालमीश्वरोपासनेनापयुज्यन्ते । अतः सृष्टिसमये न सन्त्येव ; कुतस्तेषां त्रष्ट्टत्वम् ? अतस्तेषां स्रष्ट्टत्वाभावात् न ब्रह्मतुल्यमैश्वर्यम् _ । तस्माद्यथा शुद्धखरूपस्य स्फुटेकस्य जपा थुपाधिकल्पितरागतिरोहित स्वरूपस्य रागापनये विद्यमानमेव वरूपमाविर्भवति, न त्वपूर्व जन्यते, तथा ‘‘तवमृसेि “ 4 अनेन जीवेनात्मना ” इत्यादिश्रुतिसिडबझ खरू- पस्य जीवस्याविद्यातिरोहिततदृपस्य विद्यया अविद्यापनये निजब्रह्मरूपा बिर्मावमात्रं ब्रह्मप्राप्तिः, न रूपान्तरापत्तिः । तथा च "स्वेन रूपेण । इति श्रुतौ स्खशब्द उपपद्यते, नान्यरूपनिष्पत्तौ । खशब्दोऽयमात्मा त्मीयवचनः । तत्रान्यदपि रूपं यद्यभिन्नं निष्पद्यते, तदा स्वम्, अथ भिन्नं तदा स्वीयम्, इत्यभेदात् संबन्धादन्यरूपनिष्पत्तावपि खशब्दो पपत्तिरिति चेत्; न, 'खेन' इति विशेषणानर्थक्यप्रसङ्गात् । संभवे व्यभिचारे हि विशेषणमर्यवत् । अन्यरूपस्य निष्पद्यमानस्य स्वत्वं स्वीयस्वं वा संभवत्येव, न व्यभिचरति । अतः “स्वेन ' इति विशेषणा- नर्थक्यम् । स्वत्वादिति; स्वशब्द आत्मात्मीयवचनः । निजस्यैव ब्रह्म स्वरूपस्याभिव्यक्तिमात्रं यदि मुक्तिः, कथं तर्हि निष्पद्यत इति ? निष्प - तिर्हि जन्म ; तच्चभूतप्रादुर्भावःन तु विद्यमानरूपान्निव्यक्तिमात्रम् इति चेन्न ; अभिव्यक्तावप्येवंविधशब्दप्रयोगदर्शनात् ; यथा-मलापकर्षणाभि व्यक्तशौचे घटः शुक्लो जातःनिष्पन्नः, भूतःइति चेच्यते । नयमप्यदोषः । तथ " अत्रैव सन् ब्रह्माप्येति" इतीयमपि श्रुतिः