246 ब्रह्मसिद्धिव्याख्या न च योगव्यास्रवदेव जीयस्य बलरूपेण परिणामो मोक्षः; अन्यस्य ह्यन्यरूपेण परिणामो भवति, योगिन इव व्याघ्ररूपेण । न च जीवब्रह्मणोरन्यत्वमस्तीत्युक्तम् । अपिच पूर्वावस्थाको विशेषापत्तिः परिणामः सा नास्ति, चैतन्यब्रह्मरूपस्य जीवानामविशेषात् । पूर्वं शोकमोहादि चैतन्यमासीत् , चैतन्यमात्रस्वभावब्रह्मपरिणामें तु जीधानां शोकाद्यभावो भूत इत्यस्ति विशेष इति चेत्, न ; अस्मिन्नपि पक्षे यादि शोकादयो जीवानां स्वभावभूताः, ततो जीवानां नित्यत्वात्तेऽपि जीववदनुच्छेद्यः । अथ जीवेभ्योऽर्थान्तरभूताः क्षणिक गुणः ततः क्षणिकत्वादेव विन सूक्ष्यन्तीति न तदर्थं विद्याख्यं साधनमपेक्षितमिति विद्यावैफल्यम् । न चागामिनां शोकादीनामनुत्पत्तये साधनमपेक्षितमिति वाच्यम् । । स हि तेषां प्रागभावः, स चासाध्य इत्युक्तम् । अतो न तदर्थमपि साधनापेक्षा । x = 6b अथ ब्रह्मण्यैश्वर्यविशेषोऽस्ति ; तत्प्राप्तिरेव ब्रह्मरूपपरिणामो मोक्ष उच्यते; तथाहि – स स्वराड् भवति’’ इति श्रुतिर्मुक्तस्य स्वयंप्रभुत्व- माह । तदसत् , अनेकेश्वरत्वानुपपत्तेः । तथाहि--ब्रह्मणे न्यूनं समं वा मुक्तानामैश्वर्यं स्यात् ; तत्र न्यूनत्वे न बलरूपापत्तिः, न च वयं प्रभुत्वम् ; मुक्तेश्वराणां परमेश्वरपरत्वदर्शनात् । तथा सति चान्यराजन्यत्वं मुक्तानां स्यात्। अन्यराजन्यत्वे “ अथ येऽन्यथातो विदुः, अन्यराजानस्ते क्षय्यलोका भवन्ति” इति श्रुतमुक्तानामैश्वर्यस्यान्तवत्वं, ततश्च स्खगिणा- मिव पुनरावृत्तिः स्यात् । अतो ब्रह्मात्मभावात् अन्यथा ये विदुरित्य- न्वयः । अन्यो राजा येषां ते तथोक्ताः । न चान्तववमनुपपन्नम् , लोके परमेश्वरेच्छया न्यूनेश्वराणमैश्वर्यप्रच्युतिदर्शनात् । बलैश्वर्यसमस्य चैश्वर्यस्य मुक्तानां युगपदनुपपत्तिरेव ; तथाहि--एकश्चेदीश्वरः सर्वस्य जगतोऽधिपतिः प्रशासिता च स्यात् , ततोऽपरस्य कर्तव्यमेव नास्ति ; स किं कुर्वनश्वरः स्यात् ? विरोधाच्च समस्यैश्वर्यस्य युगपदनुपपत्तिः; न रवळ यदेकस्येश्वरस्याभिनेतं तदपरस्यापीति नियमे हेतुरस्ति । तत्रैकस्मिन्वस्तुनि विरुद्धमिप्रययोर्दूयोरीश्वरयोर्मध्ये ययोकाभिप्रायानुविधायित्वं तस्य वस्तुनः स्यात्, ततो यस्येश्वरस्याभिप्रायं तद्वस्तु नानुविधत्ते न तदभिप्रायानुरूपं भवति तस्यानीश्वरत्वं स्यात् । उभयेश्वराभिप्रायानुवर्तित्वं च वस्तुनो-
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८१
दिखावट