पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।५ २०

+ सबन्धुः , अतः प्रमितिस्तेषां पूर्वसिद्धनामधिकाराक्षिप्त; यथा-“ अनो ददाति, वासो ददाति ” इति शकटवासप्रभृतीनां निष्पन्ननामचिर- संबन्धात् न तक्षणबानादीनामधिकारानुप्रवेशः, तद्वदित्यर्थः । एवं शाब्दी प्रतिपत्तिः विधेर्न गोचरेयुक्तम् । इदानीमुन्मूलितसकलविकल्पमक्षात्कारवति या तृतीया प्रतिपत्ति तन्नचरता प्रतिपत्तिविधेनिरस्यते । तदाह--इदानीमिति । ननूपासनाख्यः द्वितीयप्रतिपत्तिगोचरविधिमतिक्रम्य तृतीयप्रतिपत्तिविधिनिराकरणमयुक्तमित्या शङ्कयाह--तस्वावबोधेति । तृतीयप्रतिपत्तिगोचरो विधिः प्रमाणात्मतवावबोच विषय इत्यनेन संबन्धेन स एवांनन्तरं बुद्धिर्यो भवति, न द्वितीयप्रतिपत्ति- गचरः । स हि न प्रमीणभूततवावघोघविषयःकिंतु स्मृतिरूपतच्वा- भ्यासविषय इत्यर्थः । तत्र तृतीयप्रतिपत्तिविघिपक्षमुपन्यस्यति-- सोपाय- मिति । यदि ' शब्दं ज्ञानं प्रतिपत्तिविधिना न विधीयते, तर्हि शब्दात् ज्ञानादन्यदिदमनन्तरवक्ष्यमाणस्वरूपं ज्ञानं सोपायं शमाद्युपायसहितं विधीयते । कीदृशं तज्ज्ञानमित्यपेक्षायामाह-ऍलीनग्रहणग्राह्यविभागो- द्वाहमिति । प्रलीनं प्रत्यस्तमितम् ‘इदं ग्रहणम्, इदं ग्राह्यम् इति विमागोद्वाहो। मेदावभासो यत्रेति विग्रहः । द्वितीयतथाविघज्ञानाभावात् प्रमातृप्रभैयादिद्वयव्रिहाद्वा अद्दयं ज्ञानमियर्थः । शब्दाज्ज्ञानादन्यः दित्युक्तम्; तत्र हेतुमाह-न हीति । भिन्नानां पदार्थानां संसर्गः, तदूपो वाक्यार्थःतत्र धीः, तस्याः पदं विषयः न निष्प्रपञ्चमात्मतत्वं यतःअतः शाब्दज्ञानादन्यदिदं ज्ञानमित्यर्थः । नानार्थतंसर्गात्मा वाक्यार्थःतद्विरुद्धरूपमद्वयं चात्मतच्वम्; अतो न तदुद्धिविषय इत्युक्तं मवति । ननु मा भवतु वाक्यप्रमाणकमात्मतवम्, पदप्रमाणकं तु किं न स्यादित्याशङ्कच वाक्यलक्षण हीत्यादि वृत्तावुक्तम् । पदमात्रमप्रमण मिति भावः । तदुक्तम् ’ / पदमभ्यधिकाभावात्स्मारकान्न विशिष्यते " इति । तदनुगमेनेति संसर्मस्य वाक्यविषयत्वे हेतुः । वाक्ये सति संसर्गस्य प्रतीतेः वाक्यविषयत्वमित्यर्थः । यद्वा नानापदार्थानुगमेन प्रतीतेर्नानापदार्थ- संसर्गरम वाक्यस्य विषय इत्यर्थः । विविधेत्यादि ; विविचानामर्यमात्राणां पदार्थानां संभेदः संसर्गःतमवमासयति यज्ज्ञानं तस्येत्यर्थः । अनवसृष्ट ARS