पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

bU म।। ' 1। । a तस्य च प्रामाण्यं निषाच्छब्द|दुद्भवति । तेन शब्दाधनस्तत्र बालशने प्रवृत्तिहेतुनिश्चय इति । यद्यपि बालः स्वज्ञानेन प्रयोज्यप्रत्ययविशेषणत्वेन वृत्तिहेतुं प्रत्येति, तथापि निदषशब्दबलेन तत्र निश्चय इति शब्दस्य तत्र प्रवृत्तिहेतौ प्रामाण्यमुच्यते ; न बालज्ञानस्य, तस्यानिश्चायकस्यादिति । तदप्यसारम् ; यतः शब्दद्यदथज्ञानं तच्छब्दम् ; न तु परम्परयापि यत्र शब्वाधीनो निश्चयः, तच्छाब्दम् । यदुक्तम्-- आप्तवाक्यात् वक्तृज्ञाने प्रतीते तत एवार्थसिद्धिः, प्रतीतिमात्रेणैव वक्तृज्ञानेऽर्थे विशेषणमिति ; तदप्ययुक्तम्; यतः पुरुषवचनमपि नार्थे न प्रमणम् , न ह्यथमप्रतीत्य ज्ञानविशेषः प्रस्येतुं शक्यः । तस्माद्वक्तृज्ञानविशेषणत्वेनार्थः प्रत्येतव्यः । विशेषणं च स्मृतं वा, प्रमितं वा । तत्रार्थस्य पूर्वमननुभूतस्य स्मृत्य- संभवात् प्रमीयमाण एवथ वक्तृज्ञाने विशेषणम् । न च तत्प्रामितिः शब्दादन्येन प्रमाणन, तस्यानुपलब्धेः । तस्माच्छब्दप्रमाणिकव तत्र प्रतीतिरिति नार्थः प्रतीतिमात्रेण विशेषणम् । न च .वक्तृज्ञानेनैव शाब्दन, परज्ञानेन परस्याप्रतीतेः । अतः पुंवचनमदृष्टांन्तः । ननु पुंवचति शब्देन ज्ञानेन चेत् श्रोतार्थं बुध्यते न वक्तृज्ञानेन, कथं तर्हि ‘अपिच पौरुषेयाद्वचनात् ’ इत्यादिना वक्तृज्ञानाधीनार्थसिद्धिरत्यु च्यते ? तत् वक्तृज्ञानमिथ्यावे तदसंभवे बां चैत्यवन्दनादिवाक्येषु या पुंवाक्यात वक्तृज्ञानप्रतीतिः सा बाध्यते, वक्तृज्ञानप्रतीत्यबाधे च सा न बाध्यत इति कृत्वा न पुनः पुंवचसोऽर्थे न विषयः, किंतु वक्तृज्ञानेन श्रोतरर्थप्रतीतिरित्यभिप्रायेण । यदि तु पुंवचसोऽर्थो न विषयः स्यात्, ततः पुंवचसोऽर्थे सापेक्षत्वम् ‘अथेमत्रे च सापेक्षवम्' इत्यत्र यदुक्तं तन्न स्यात् । विषये हि सापेक्षनिरपेक्षते भवतः, नाविषये । तथा चोक्तं वार्तिकछता- प्रामाण्यस्थापनं तु स्याद्वक्तृधीहेतुसंभवात्” इति । एत- दुक्तं भवति-चुंबचसोऽर्थे प्रामाण्यं स्वत एव वक्तृधीहेतुसंभवेन तु प्रतिष्ठाप्यते । यदि तु वक्तृबुद्धेर्हतुर्न संभवेत् चैत्यवन्दनादविव बुडबुडे , ततो बाध्येत । तेनाबाधनमत्र स्थापनमभिप्रेतम् , न तु प्रामाण्यमेव । तथा प्रामाण्यस्थापनमित्युक्तम् , न तु प्रामाण्यमिति । एतच्च प्रामाण्य स्थापनं वाक्यस्य, न तु वक्तृघिय एव । तेन न वक्तृधियोऽर्थं प्रामाण्यम् अपितु वाक्यस्य । किंच 4 औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः” इत्यर्थः