पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणयोगात्मिका ; अर्थस्य वा स्वभाव इत्यर्थः । किंच एवं सति वेदान्तानामस्यर्थनिष्ठसापेक्षत्वदोषोऽपि नास्तीति वक्तुमुपक्रमते--प्रमाणेति, प्रमाणयोग्यः' इति भावप्रधानो निर्देशःयोग्यतेत्यर्थः । धर्मधर्मिणोरभेद विवक्षया चेदमुक्तम् । यद्वा प्रमाणयोग्यतारूपोऽप्यर्थ खभ9वः प्रमेयत्वात् प्रमाणयोग्य इत्यर्थः । ननु प्रमाणयोग्यता सत्तेत्याख्यायते ; अतस्त- निष्ठत्वेऽपि वेदान्तानां प्रमाणान्तरसंस्पर्शात् सापेक्षता तदवलैवेत्यभिप्रायेणा शङ्कयाह – तस्य त्विति । तस्य त्वर्थस्वभावस्य कथनोपाय एव यत् प्रमाणसंबन्धो नाम ; योग्यता तु प्रमाणाद्वहिरेवार्थात्मिका, न तु प्रमाण योगात्मिका ; अतो न तस्यां प्रमाणसंस्पर्शाऽस्तीत्यर्थः । एतदुक्तं भवति योग्यता सदर्थ इत्युक्ते या काचित् योग्यता मा प्रतीयतामितेि तद्विशेष प्रतिपत्तये प्रमाणयोग्यत्याख्यायते ; न तु प्रमाणं योग्यताशरीरान्तर्भूतम्। येन योग्यतायां सदर्थे प्रमाणमुषाधिः स्यादिति यद्विशेषप्रतिपत्तये यत् संकीर्यते तदेव तच्छब्दप्रवृत्तावुपाधिर्भवतीत्यत्र दृष्टान्तमाह-यथेति । नीलज्ञानमुपाधिर्यस्येति विग्रहः । परोक्तदोषाभावमिदानीमाह--तथाचेति । स इत्यर्यखभाव उच्यते । अत्र परश्चोदयति--स्यादिति । तिडन्ती त्वाह- मा भूदिति । मा भूदेका सत्ता, नास्माकमेतत् साध्यं यदेका सत्तेत्यर्थः । किं नाम साध्यमित्यत आह -सर्वथेति । एका भवतु सत्ता, अनेका वा ; सर्वया अर्थात्मिकां सत्तामतिशब्दोऽमिधत्ते, न सन् प्रमाणयोगनिमित्तः इति एतन्न साध्यमिति पूर्वेणान्वयः । किमि१ि पुनः प्रमाणयोगनिमित्तत्वा भावमात्रं साध्यते, न सतैकत्वमित्यत आह -- प्रभाणेति । प्रमाण- योगनिमित्तत्वे सन्शब्दस्य, अस्त्यर्थनिष्ठेषु " वेदान्तवाक्येषु प्रमाण संस्पर्धर्यः स्यात् ; तथा सति च तेषां सापेक्षता स्यादिति प्रमाण योग निमित्तः सन्शब्दो भवतीत्येतन्न साध्यम् । अनेकता तु सत्ताया न कंचिदोषमावहतीति नैकता साध्येत्यर्थः । एतच्चभ्युपगमवादेनोक्तम् । परमार्थतस्तु, ययोका सत्ता नेष्यते तदानन्तैर्भावैः संबन्धग्रहणासंभवात् अनन्तशक्तिकरुपनप्रसङ्गाच न तेषु 'सत्' इत्येकः शब्दः प्रवर्तेत ; तस्मादेका सतैव्येत्यर्थ । ननु भिन्नेष्वप्यभिन्नशब्दप्रवृत्तिर्धष्ठा ; यथा