पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वसते दो नोपलभ्यते चेति, येन विरोधः स्यात् ; अपितु सर्वेभ्यो । बटखरूपादन्येभ्यः पटादिभ्यो व्यावृत्तं घटं स्पष्टमेवावभासयति प्रत्यक्षम्; अतो न विरोध इति यो ब्रूते, तस्य ‘ आहुर्वधातु ’ इत्यादिनैवोक्तमुत्तर- मित्यर्थः । किंच यदि सामान्यविशेषौ भिन्ने ठे वस्तुनी न संभवत इत्युक्तम् , न चैकं इयात्मकम् , तदा अन्यतरस्य मिथ्यावे करुण्ये भेदज्ञानस्यैव 8. मिथ्यात्वमुचितं नाभेदज्ञानस्येत्याह--किंचेति । ‘इदं रजतम्’ इत्यादि भ्रान्तिषु ‘इदम्’ इत्यनवगतविशेषवस्तुमात्रावलम्बि । ज्ञानं प्रतिष्टितम् । व्यभिचारि ; अतः पश्चात् बाधदशायामपि “ शुक्तिशकलमिदम्’ इतीद- मंशस्य प्रतिभानात् ; भेदेषु तु विशेषेषु रजतादिज्ञानस्याप्रतिष्ठितत्वं व्यभिचारित्वं दृष्टम् ; दृष्टव्यभिचारित्वस्यैव च व्यभिचारकल्पना लवी, तस्य व्यञ्जिचारयोग्यतायाः तृप्तत्वात् ; इतरत्र वस्तुमात्रांओं तु सा फरुष्यत्वात् गुर्वी ; तसादिहापि भेदज्ञानमेव मिथ्या, नाभेदज्ञानमिति भावः । इन्द्रियधियामपि’ इत्युक्तम् ; तस्य व्यावर्यं वक्तुं पूर्वपक्षोप- क्रममात्रं करोति स्यादिति । अनुविधायित्वादपीत्यपिशब्दो द्रष्टव्यः, अत्र द्विवन्द्राद्युदाहरणम् । किंच व्यावृत्ताः सर्वशवा इति वदता व्यावृत्तशब्देऽन्योन्याभावस्य प्रवृत्तिनिमित्तत्वात् अन्योन्याभावस्वभावास्तद्विशेषणा वेति वाच्यम् ; न च तदुभयमपि संभवतीत्याह-अन्योन्येति । तत्र तस्मिन्नन्योन्याभावे उपाधौ विशेषणेऽभ्युपगम्यमाने तथा भेदरूपेण प्रतीयन्तां भावाः न खरूपतो भिन्नाः स्युरित्यर्थः । अन्योन्येत्याद्युक्तम् तत्कुत इत्याशङ्कचाह –एकसि निति । यथैकं भावरूपमितरनिरपेक्ष स्यात् ततोऽपरं भावरूपं व्यव तिष्ठेत ; यदा तु सर्वमेवाभावरूपं तदैकमस्मिन्नसत्यपरं तदभावरूपं न स्यातू ; तस्मिशासति तन्न स्यादितीतरेतराश्रयं स्यादित्यर्थः । अतदात्म- नभ तयाचप्रतीतावुपहितो मणिरुदाहार्यः । अत्र चोदयति---नन्विति । अर्यसिद्धिरिति ; स्वरूपमेवान्योन्याभावः, नान्योऽस्तीत्यर्थः । सिद्धान्ती वाइ न चेति ।