पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुवर्णद्रव्यमेव स्युः; ततस्तां नाले सुवर्णमपि नश्येत् । अतो रुचक नाचे वर्धमानं नावतिष्ठेत ; न चैवम् , तत्रापि प्रत्यभिज्ञानात् । न च द्रव्याद्विद्यते; भेदेनानुपलब्धेःद्रव्यस्यैव रुचकादिरूपेणपलब्धेः । तदेवं द्रव्यपर्यययोर्भिन्नभिन्नत्वात् तदुभयात्मकमेकं बत , न द्रव्यमात्रं पर्याय मात्रं वा । द्रव्यमात्रे हि वस्तुनि रुचकादेरभावात् तदुत्पादे तद्विनाशे च तदर्थिनो हर्षशोकौ न स्याताम् । पर्यायमात्रे च वस्तुनि तदुपावे विनाश च हेनेऽप्युत्पत्तिविनाशान्मध्यलढा न स्यात् । इयात्मजे तु वस्तुनि हर्षादिकमप्यवकरुपते । तस्मात् द्वयात्मकमेकं वस्त्विति ये मन्यन्ते--द्रव्यपर्यायार्यकाः द्रव्यपर्यायरूपोऽयं वस्तु येषां ते, तेषामपि नीतिरनेनैवात्यन्तभेदाभेदवादप्रसङ्गनिराकरणप्रकारेण निराकृता । एतदेव प्रपञ्चयति-तथाहीति । अवास्थितं हि द्रव्यमुच्यते; तद्यदि रुचक- P.68-1' वर्धमानकवस्तुनोर्हमांशेनाभेदादभेद उच्यते, तत एकमेव वस्तु; तनु अनित्यमवलितामिति द्रव्यमात्रं जगदित्येषा नीतिः स्यात् । अथ हेमरुचा युभयरूपत्वात् वस्तुनो रुचकस्य वर्धमानकाझ्यावृत्या वस्त्वपि व्याछत्तम्, यज्ञ हेमांशमात्रे वर्धमाननेऽप्यनुवृत्तं न तदनुयूच्या वस्तुनोऽनुवृत्तिः, तस्य केवलस्य वयमवस्तुत्वात् इत्युच्यते; ततः पर्यायमात्रं जगदितोयं नीतिः स्यात् । यतः परस्परव्याखताः पर्याया उच्यन्ते, न तु द्रव्यम्; यतोऽव सितं द्रव्यमुच्यते ; न च पर्यायमाने किंचिदुत्ववखितमस्ति, तेषामुत्पत्ति- विनाशसंबन्धात् । या तु हेमांशमात्रस्य रुचकनाशेऽपि वर्धमानकेऽवसान- कल्पना, सा कल्पनैव; यतो द्रव्यपर्यायरूपं चित्रं वस्तु हेमांशमात्रस्य च न अथात्वमित्यर्थः । अत्रैव दूषणान्तरमाह--अपि चति । द्रव्यात् पर्यायाणां । भेदे द्रव्यस्य स्थितवान् पर्याययोश्च नाशोत्पादात् तद्भर्थिनां मध्यलताखोकहर्ष ठ्यवस्त्रां धटेत । अभेदे तु तदेव तिष्ठति तदैव जायते तदेव विनश्यतीति स्थितिजन्मनाशानामेकत्रैव समवायः स्यात्; ततश्च द्रव्यार्थेिन द्रव्यस्य सितत्वात मध्यस्थता : स्यात् ; न स्याच, रुचकवर्धमानकनाशोत्पादयो- स्तदभेदात् द्रव्यस्यापि नाशात् उत्पादे च स्थितद्रव्याभावात् ; अत एव हर्षशोकौ च स्याताम्; यदि तु द्रव्यमवतिष्ठत एव तेतो मध्यसतैव 12