148 बह्मसिद्धिव्याख्या संयोगोऽपि समवायम् ; नचैवं वैषम्यम् । किंच समवायः नापेक्षेत खसंबन्धिभ्यां समवायेनान्येन संबध्यते, संबन्धत्वात् , संयोगवत् । सोऽप्यनेनेत्यनवस्था । किंच इहप्रत्ययहेतुः समवायःन च गोत्वादिष्विह प्रत्ययोऽस्ति । न हि “ इह गवि गौः’ इति प्रत्ययः, अपि तु 'गौरैयम्’ इति सर्वेषाम् _ । अतः समवायो नास्तीति न सोऽपि वस्तुविशेषयोः संबन्धः । नापि संयोगः । सोऽपि हि संयोगिभ्यामभिन्न श्रेन्नास्ति ; भिन्नश्रेत् केन ताभ्यां संबध्येत ? समवायेनेति चेत्, स निरस्तः । न च स्वतन्त्रः संभवति । तस्मात् सोऽपि नास्ति । तेन संयोगोऽपि न वस्तु- विशेषयोः संबन्धः । अतो वस्तुनो भिन्नोऽपि विशेषों न भवतीति एवं ववेकवेऽपि काल्पनिकविशेषमात्रभेदात् कार्यभेदं स्थिरवादिनः प्रत्यपाद्य क्षणिकवादिनं प्रति विशषण तमाह-यस्त्विति । तुशब्द विशेषार्थः । यस्तु क्षणिकत्ववादी तत्वमेवाभेदमेव सवाद्यात्मना विशेषस्य न मन्यते—विशेषा एवात्यन्तविलक्षणाः क्षणिकं वस्तु, न त्वेकजात्यादि स्थायि किंचिदस्तीति मन्वानः -तस्य कारणवभावानुवर्ती कार्यखभाव इति त्रीहिक्षणानां तत्सामान्यरूपेणासत्यभेदे तेभ्यः कथमेकरूपत्रीशङ्कराख्यकयों- त्पादः । अथास्यन्तभिन्नानामपि तेषां कल्पिताजातिरूपेणाभेदात् कार्यतुल्य- ताच्यते, एवं तर्हि कारणैकवेऽपि कल्पितादेव भेदात् कार्यभेदसिद्धः कार्यमेद मेदसिद्धये कारणभेदकल्पना गुर्वी वृथैवेत्यर्थः । निरन्वयो विनाशो येषामिति विग्रहः । क्षणिकवादिनां घठनाशे घटत्वस्य घठान्तरे मृद श्र खकपालादावन्वयो नास्तीति निरन्वय इत्युच्यते । अथ भिन्नेभ्योऽपि चक्षुर्विषयसमनन्तरप्रत्ययेभ्य एकज्ञानोत्पत्तेर्न कार्यभेदाय कारणाभेदोऽपे क्ष्यते, तेनात्यन्तभिन्नेभ्योंऽपि क्षणेभ्यस्तुल्यरूपं कार्यमुत्पत्स्यत इत्युच्यते, तया सति कार्यस्वभावस्य कारणखभावानुवर्तित्वव्यभिचारात् यथा भिन्न दप्येकरूपं कार्यं तथैकस्मादपि कार्यमेदोपपत्तेर्न कार्यभेदसिद्धये कारण भेदः करप्यंः; तदेतदाह--अथेति । यदपि भिन्नानामेककार्यत्वे चक्षुरा- द्युदाहतं तदपि तस्यैवासिद्धम्; तथाहि-चक्षुषां रूपग्रहणनियमे, समन तज्ञानस्य ज्ञानात्मत्वे, विषयस्य च तदाकारत्वं व्यापार इति बदत
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८२
दिखावट