पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

137 यथा चास्य विभ्रमत्वं तयोक्तमनायबलवधप्रदर्शनदेश इत्युपरम्पते । अथोच्यते --.नैकस्य बहव आत्मानः संभवन्ति ; अत एकाकारनियमं दर्शनमनेकात्मानं व्यवच्छिनत्तीति, तदाह -- नैफस्येति । अत्रांतरमाह- अन्यत इति । एकविधिरेवान्यव्यवच्छेद इति ते पक्षः ; स विरोषात् -व्यवच्छेदे सति न त सिध्येदिति भावः । नन् चानात्मव्यवच्छेदेन नः कार्यम् स चेद्विरोधाद्भवति, भवतु ; तवता भेदः सिध्यत्येव; किं नो दर्शननियमव्यवच्छेतृत्वग्रहणेयाशङ्कय विरोधादपि न व्यवच्छेद इत्याह असतीति । अन्योन्यव्यवच्छिन्नानां हि बहुत्वं भवति ; व्यवच्छेदक्ष विम- त्यधिकरणभावापनं नाद्यापि सिध्यति । अतोऽसति व्यवच्छेदे कुतो बहु त्वम् ? सत्यपि बहुत्वे बहुत्वैकत्वयोरसति व्यवच्छेदे द्वितीयस्य विरोधिनो- ऽमावात् कुतो विरोधः ! अथ व्यवच्छेदात् विरोधो विरोधाच्च व्यवच्छेद इत्युच्यते, तथा सति इतरेतराश्रयत्वं स्यात् । अतो विरोधादपि व्यवच्छेदो नास्तीति भावः i अथवा असति व्यवच्छेदे कुतो बहुत्वं तदभावाच कुतो विरोध इति योज्यम्; तदा च वाशब्दार्थे । उपसंहरति तस्मादिति । इदानीं “मा न भूत्’ इति ळोकपादं याचष्टे--अपि चेति । एकदर्शनभाजामिति ; एकेन चित्रज्ञानेन गृह्यमाणानामित्यर्थः । कुत इत्याह-एकेति । नीलादीनामेकत्र चित्रज्ञाने प्रमेयत्वेन संबन्धा देकत्र नीले पीते वा चित्रज्ञानस्यानियमात् तन्नियताकज्ञानसामथ्र्योल मेदसिद्धिरित्यर्थः तत्र चेदन्यद् भेदे प्रमाणम्, तदेव सर्वत्र स्यादित्य करणं दर्शनप्रतिनियम इति भावः । एवमेकविधिरेवान्यव्यवच्छेद इति मते निरस्ते भावव्यतिरिक्तमेदवादी चोदयति--नन्विति । प्रकृत्यैवेति; स्वभावेनेत्यर्थः । तद्विधानिति; भिन्न स्वभावानित्यर्थः । ननु व्यानृत्तिव्यवृत्तिमतोऽन्याः तेन व्यावृत्तिमद्रहणेऽपि न गृधत इत्याशङ्कयाह-न हीति । व्यावृत्तितदृतोरन्यत्वेऽनवस्था स्यात् ; अतो व्याडत्तिस्वभाव एव भाव इति भावः । किमेवं सीति स्यादित्यत्राह तत्रेति । कुत इत्याह--यदितेि । व्यतिरेकमाह--अन्यथेति ; यो यत्वरूपः स चेत् तेन स्वरूपेण न प्रतीयते, ततः स्वरूपप्रतीत्या प्रतीत