9 तदेवं मिथ्यावभासनियुच्ययं कमपासनानुप्रवेशे दञ्चिते शाब्दज्ञान मात्रवादी पुनः प्रत्यवतिष्ठते--स्यादेतदिति । मोक्तृत्वाभिमानात् भोगोप करणेषु खचन्दनादिषु रागः ततः शुभ ज्यातष्टोमादलक्षणा अशुभा च बसाहत्यादिलक्षणा प्रवृत्तिः; ततः पुनः शरीरग्रहणमित्येवं भोक्तृत्वा द्यभिमान बोधात्पूर्वं प्रमाणत्वेन गृहीतः प्रवृत्तिहेतुः; स शब्देगाभोक्तृ- त्वादिरूपारमतवावबोधेन बाधितोऽनुवर्तमानोऽपि न पूर्ववत्प्रवृत प्रसूते; न हि सूर्योदयावगतप्राचीदिक्तवो दिङ्मूढोऽप्युदीचीं व्यवहाति, किं तु प्रामाणिकतवनिश्चयानुरूपमेव; तेनोत्पन्नात्मतवबोधस्य क्रमपासनादौ प्रवृ तिरेव नास्ति ; अतो न मिथ्यावमासानुवृत्तिनिवृत्तये कमपामनाद्यपेक्ष्यमिति भावः । तदेतदूषयति--उच्यत इति । मिथ्या अयों येषां ते मिथ्यार्थाः मिथ्यार्था इव मिथ्यार्थाः ; न तु मिथ्यार्था एव तवनिश्रेयानां मिथ्यार्थ त्वानुपपत्तेः ; मिथ्याविषयज्ञानवत् स्वानुरूपं व्यवहारं न प्रवर्तयन्ति ; मिथ्याज्ञानमेव तु बाधितमपि खानुरूप व्यवहारं प्रवर्तयतीत्यर्थः । अत्र दृष्टान्तमाह- ययेति । यथा दिङ्मूढस्याप्तबोधितदिक्तत्वस्याप्यननुसंहितास्र वचसस्तत्र निश्रया अपि मिथ्यार्था भवन्तीति पूर्वेणान्वथः । कुत इत्याह- प्रागिनि । दृष्टान्तान्तरमाह – तथेति । उपसंहरति--तस्मादिति । संस्कारस्य हेतोरभिभवोच्छेदमुखेन हेतुमतो मिथ्यावभासस्य निवृत्तिरभिनेता। इममर्थं श्रुत्या द्रढयति---तथा चेति । « श्रोतव्यः ” इति वेदान्तश्रवणा- दुत्पन्नशब्दतवदर्शनस्यापि " निदिध्यासितव्यः ” इत्युत्तरकालमप्यास उच्यत इत्यर्थः । तथा दमादि विधीयत इत्याह-दमेति । व्यतिरेकमाह अन्यथेति । शाब्दज्ञानादेव सांसारिकधर्मनिष्ठत्तौ ध्यानाद्युपदेशो व्यर्थ एव स्यादित्यर्थः । पुनः परमतमाशङ्कयति -स्यादेतदिति । ब्रह्मचर्याद्युपकरणा- दाम्नायात् तधज्ञानं भवति ; तेन शाब्दज्ञानसिद्यर्य एव ब्रह्मचर्यादि- साधनोपदेशःन व्यर्थ इत्यर्थः । तदूषयति--तदसदिति । शब्दमात्रादेव शमादिनिरपेक्षात् शाब्द्याः प्रतिपत्तेरुत्पत्तिः ; अतो न तदुत्पत्तये शमा- द्यपेक्षा ; न चानपेक्षितमुपकरणं भवतीति भावः । एतदेव युक्रयोप- पादयति-न हीति । साधनविशेषेभ्यः शमादिभ्यः प्रागाम्नायो नावाचकः शब्दार्थसंबन्धस्यौत्पत्तिकत्वात । न च संबन्धज्ञानवद्वाचकस्यापि शमाद्य
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४३३
दिखावट