प्रसिद्धिव्याख्या पुत्रादिष्विव चेदंप्रत्ययप्रसङ्गात् ; किं तु योऽयमनात्मनि शरीरे अहम् ' इति मिथ्यात्मकवाभिमानः सत्यत्वेनाभिमतः, तन्निमित्तः । तस्मिन् शरीरसंबन्धे देहातिरिक्तारमतवदर्शनात् निमित्तनिवृच्या निवृत्ते संस्कारमात्रेण सत्यामपि शरीराभासानुवृत्तौ जीवत एवाशरीरत्वमित्यर्थः । एवमशरारंवं व्याख्याय तत्र श्रुत्यर्थं योजयति--तत्रेति । तत्र तादृश्य- शरीरत्वं प्रियस्येष्टस्याप्रियस्य चानिष्टस्यास्पर्श आत्मन्याख्यायते ; अनया श्रेयेति वाक्यशेषः । उपसंहरति-तस्मादिति । व्यतिरेकमाह--यस्त्विति । तयेति, सांसारिकधर्मभागित्यर्थः । इतिः पूर्वपक्षसमाप्तौ । । स्यादेतत्--असाध्यत्वात ब्रह्मणो न कर्मणामुपयोगः’ इत्यारभ्य नानाप्रकारकर्मज्ञानसंबन्धं पुनः प्रत्यक्षानुमवसिद्यर्थं कम- निरस्य पासनादिसंबन्धमाशङ्कच शाब्दज्ञानादेव निःश्रेयसम् न प्रत्यक्षानुभवात्; अतो न तदर्थमपि कमपासनापेक्षा’ इति सिद्धान्तमाह--अत्रोच्यत इति । । अत्र दृष्टान्तमाह-यथेति । आप्तवचनेन विनिश्चितं दिक्चन्द्रयोस्तवं येषां तेषां पुंसां द्विचन्द्रदिविपर्यासादयो यथानुवर्तन्त इति । पूर्वेणान्वयः । दार्थान्तिके योजयति---तथेति । निर्विचिकिंसादान्नायादवगतमात्मतत्वं येन तस्य पुंसोऽनादिमिथ्यादर्शनस्याभ्यासेन पौनःपुन्येनोपहितस्य सहितस्य स्वत अतस्त एव च भवतः संस्कारस्य सामर्थोन्मिथ्यावभासस्यानुवृत्तिरस्ति, निवृत्तयेऽति शब्दज्ञानादन्यदपेक्षणीयम् । यदपेक्ष्यं तदाह--तच्चेति । मिथ्यादर्शनबाधकस्य तवदर्शनस्याभ्यासः संस्कारदाख्येकरत्वेन लोक एवान्वयव्यतिरेकसिद्धः । यज्ञादयश्च ५ तमेतं यज्ञेन ” इत्यादिशब्दप्रमाणका इत्यर्थः । तत्राभ्यासस्योपासनापरपर्यायस्योपयोगमाह--अभ्यासो हीति । तच्चदर्शनाभ्यासः संस्कारं द्रढयति ; दृढीभूतः संस्कारः पूर्वमिथ्यादर्शनी संस्कारं प्रतिबध्य स्वकार्यं तरवदर्शनाख्यं संतनोति प्रवहति ; ततश्चात्म- खरूपाविर्भाव इति भावः । कर्मणां चोपयोगमाह-यज्ञादयश्चेति । अत्रैव मतान्तरमाह -श्रेय इति । उपयुज्यत इत्यध्याहार्थम् । अत्र हेतुमाह--नित्यानामिति ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४३२
दिखावट