76 ब्रह्मसिद्धिव्याख्या अन्यपरेषु फलश्रुतेः "द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्’ इत्यर्थवादत्वादिति । तदेतत्सर्वमाह—अपि चेति । इममेव न्यायमुपजीव्याह तदिति । यदि विधिनिषेघानां ज्ञानकार्यमोक्षपरत्वं स्यात् , ततो न ते वर्गदिकार्याः स्युः; अतश्च जन्तूनामभ्युदयविनिपाता निर्निमित्ताः स्युरिति भावः ; स्वर्गादिः कार्यं येषामिति विग्रहः । यद्यपि कर्मविधीनामुत्तरो विचरोऽनुवतेते, तथापि तुल्यदोषत्वादुपक्रमे चपन्यासादिह निषेधान निक्षेपः कुतः । वर्गादीत्यादिशब्देन नरकाद्यपि ग्राह्यम् । ननु प्रधानोपकरलक्षणं प्रयाजादिकथं यथा प्रधानकार्यवर्गादि परमपि नाविवक्षितम् , तथा वर्गा द्यपि कार्यमात्मज्ञानकार्यगोक्षपरमपि नाविवक्षितं भविष्यति ; ततश्च विधि- निषेचा ज्ञानकार्यपरा अपि स्वर्गादिकार्याः किं न स्युरित्याशङ्कयाह--न रवल्विति । प्रयाजादेः कार्यस्य स्वयमपुरुषार्थत्वात् पुरुषार्थकार्यानुप्रवेश युक्तः; न तु स्वर्गदिकार्यस्य, खयं पुरुषार्थत्वादिति भावः । एवं तावच्छूतस्वर्गादिनिराकाङ्क्षाः कर्मविधयो नात्मज्ञानाधिकारमनुप्रविशन्तीति । स्थितम् । इदान यदुक्तम्--दृष्टनैव कर्मविधय आत्मज्ञानाधिकारोपयोगिन इति, तद्दषयति--कथं चेति । अत्र पराभिप्रायमाशङ्कयति-यदीति । यादि तावद्रागद्वेषादिप्रयुक्तदृष्टार्थप्रवृत्तिप्रतिबन्धद्रेण समाहितवमापादयन्तः कर्म विषयो दृष्टेनात्मज्ञानाधिकारोपयोगिन इत्युच्यत इत्यर्थः । तदूषयति भवविति । प्रतिषेधानां रागादिप्राप्तप्रवृत्तिनिवृत्यर्थत्वाद्भवतु ज्ञानाधिकारं प्रति ‘दृष्टोपकारित्वम् न च कर्मविधीनामित्यर्थः । अत्र हेतुमाह न हीति । परिसंख्यायां हि रागतस्तत्र चान्यत्र च प्राप्तौ f• पञ्च पञ्चनरवा भक्ष्यः " " शशकः शल्यकः" इते शशकादिव्यतिरिक्तमनुष्यादिपश्चनरव भक्षणनिवृत्तिपरं वाक्यम् । तथा ‘दोहोभियजेत " इति यागापेक्षद्रव्य- मात्रप्राप्तौ तदन्तर्गतत्वेन त्रीहेरपि प्राप्तत्वाष्ट्रव्यान्तरनिवृत्तिपरं वाक्यम् । कर्मविधयस्तु न नियामकाः, न परिसंख्यायकाः, किं तु विधायका एव ; अतो नान्यनिवृत्तिपरा इत्यर्थः । कुत इत्यत आह --- अत्यन्तमिति । न A_e*
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४१२
दिखावट