८५
पूर्वेणैवान्वयः । तथा “ गोदोहनेन पशुकामस्य ” इत्यत्र गोदोहनस्यु क्रियात्मनोऽनन्योत्पादनस्वभावस्य साक्षापशुसाधनत्वसंभवात् क्रियां स्वाश्र यमपेक्षमाणस्य प्रकरणात् दार्शपौर्णमासिकीं प्रणयनक्रियामाश्रित्य पशुसाधन त्वमित्यर्थात् दर्शपूर्णमासाधिकृतस्यैवाधिकारादधिकारी भिन्नो निषिध्यते । नन्वेवमादिषु भवतु भेदविलयःविधिनिषेधचोदनासु तु प्रत्तिनिवृत्तिमत्र फलासु तदसंभवन्न कृत्स्नाम्नाय भेदप्रवलयपर इत्याशङ्कच तत्रापि मेदप्रविलयमाह--तथेति । तथा विधिनिषेधचोदनास्वपि स्वाभाविकीनां रागद्वेषनिबन्धनानां बाह्यप्रवृत्तानां निषेधो गम्यत इत्यन्वयः । तत्र निषेधेषु साक्षादेव ‘नेदं कुरु'. इति प्रवृच्यन्तरांनषेधोऽवगम्यत इत्याह- निषधेष्विति । नन्वेवमस्तु निषेधेषु ; विधिषु तु प्रवृत्तिमात्रफलेषु कथमित्यत अह-विधिष्विति । विधिषु तु ** सन्ध्यामुपासीत ” इति प्रवृच्यन्तरनियोगेन तत्कालबाहप्रवृत्तिनिषेधोऽवगम्यते । एतदुक्तं भवति -उभयत्रापि बाह्मपुत्रु- त्तिवलयो न विशिष्यते अयं तु विशेषः यन्निषेधेषु साक्षात्, विधिषु पुनरर्थादिति । लोकदृष्टं चेदं प्रकारद्वयमित्याह--लोक इति । लोकेऽप्यन भिप्रेतात् पथः सकाशात ’ अनेनाध्वना मा गच्छ' इति साक्षाद्वा निवारणं दृश्यते, मार्गान्तरोपदेशेन वा विवक्षितानभिमतमार्गनिषेधेनाद्यात् । तदेवं विधिनिषेधचोदनाखपि रागादिनिबन्धनप्रवृत्तिविलयो गम्यत इति स्थितम् । एवं चैष गुणो - भवति-रागादिनिबन्धननैसर्गिकप्रवृत्तिरूपमेदविलयद्वारेण मुमुक्षः शान्तताद्यघिकारिविशेषणमुपपादयन्तो दृष्टेनैवोपकारेणावघातादिवत् सन्निपत्योपकारितया कर्मविधयः “ आत्मा ज्ञातव्यः ” इत्यस्मज्ञानाधिकारो- पयोगिनः स्युरित्यदृष्टकल्पनागौरंवं न भवतीति भावः । श्रुत्यापि रागादि निबन्धनाशेषवाद्यप्रवृतिनिवृत्तिरधिकारिविशेषणं दर्शितमित्याह--तथा हीति । शान्तस्य समाहितस्य चात्मनि विषये दर्शनमुपदिश्यते— तस्मच्छन्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आरमन्येवामानं पश्येत् " इत्यादि भृत्या । तत्र शान्त इत्यन्तःकरणपूर्वकरागादिजस्रवृत्तिनिवृद्धिरधिकारि- विशेषणमुक्तम् ; दान्त इति । बहिःकरणपूर्वकरागादिजऐवृत्तिनिवृत्तिः । अन्ये तु विपर्ययमाहुः-अवश्यं चैतदधिकारिविशेषणमास्थेयम् यतः समथोंऽघिकारी भवति ; तच्चात्मज्ञानं शन्तदान्तसमाहितस्यैव शक्यम्,