A = 68 बहासाडव्याख्या - दृष्टान्तमाह-सुवर्ण तववदिति । तप्रपञ्चयति-न हीति । सुवर्णतवं पिण्डरु- चकादिसंस्थानविशेषेर्य उपछवः--उपरागः, संमिश्रस्वम् , अपृथग्भवः—तेन रहितं रुचकादिविलक्षणविशेषशालि, तेभ्यः पृथकू न दृश्यत इति । न च रुचक दय एव सुवर्णतामिति वाच्यम् , रुचकत्यागेन संस्थानान्तरे स्वस्तिकेऽपि भावात्; सुवर्णतस्वस्य हेि रुचकाभेदे च रुचकवत् तदपि स्वस्तिके न भवेत् ; अस्ति च तस्मात् ततः पृथकू । एवं स्वस्तिकेऽपि द्रष्टव्यम् ।
एव सुवर्णतवं रुचकादिभ्योऽन्यदपि पृथक् न दृश्यते ; अथ च तादृश- मपि तन्न खतिकःरुचके भावात्; न रुचकःस्वस्तिके भावात्; अतो ऽन्यदिति विवेकबुध्द्या ‘न तद्वचको न स्वस्तिकःइति रुचकादिभेदापोहद्वारेण रुचकादिविशेषनिषेधे तेभ्यः सर्वान्तरं सुवर्णतत्वं स्वयं प्रतीयते परस्मै च प्रतिपाद्यते, तथा ब्रह्मापीत्यर्थः। न दृष्ट' संस्थानभेदोपऽवात् विवेको यस्येति विग्रहः । एतच्च गोत्वादाव िमुल्यम् ; उदाहरणमात्रं सुवर्णम् । इममर्थं श्रुत्या द्रढयति--। अस्मिन्नेवार्थेऽभियुक्तवाक्यद्वयं पठति - स एष इत तथेति । वाक्यशेषः । स्थूलाद्याकाराणां विशेषाणामुपसंहरे उक्तमिति विलये अवसाने । यत् व्यवतिष्ठते तसत्यमित्यर्थः । तथा परैरप्यु अन्त क्तम्--परमार्थतो निष्प्रपञ्चमेव ब्रह्म ; तदविद्यया प्रपञ्चस्याध्यारोपेण तदप वादन तन्निषेधेन च प्रपञ्च्यते व्याख्यायत इत्यर्थः । एवं ब्रह्मणः प्रपञ्चविलयद्वारेणाम्नायगम्यत्वमुक्वा अन्नायविशेषनि धीरणाय इदमिदानीं विचर्यते-किं कृत्न एव स्वरूपकार्यनिष्ठ आम्नायो । भेदनिषेधद्रणाद्वयं ब्रह्म गमयति, उत कश्चिदस्याम्नायस्य वेदान्ताख्य एकदेश इति । तत्र तस्मिन् संदेहे केचिदाहुः-सर्वत्राम्नाये कचित् कस्यचिद्वेदस्य प्रविलयो गम्यते । तेन तदद्रेण कुत्न एवाम्नायो ब्रह्म गमयतीति भावः। तद् दर्शयते-—यथा “ खगकामो यजेत" इत्याम्नायात् शरीरस्यात्मत्वप्रविलये गम्यत इति पूर्वेणान्वयः । कथम् ? उच्यते अत्र हि वाक्ये देहस्य लोकान्तरमननुवर्तमानस्य जडस्य च जन्मान्तरीय स्वर्गापमोगसामर्याभावात् तद्यतिरिक्तो जन्मान्तरानुवर्ती चेतनश्च वर्गोपभो असमयऽबिकारी गम्यते ; स एव चत्मेति देहारमविलयो गम्यत इति