56: बालकाण्डः स्वतन्त्रो हीति । अत्र दृष्टान्तमाह— लौकिक इति । अथ ईश्वरः कर्म सापेक्षः न त्वस्य बन्धने स्वातनयम् कर्मसु वा नास्य स्वातन्त्र्यम्, येन तान्याहूय पुनर्जनीयात्; अतो न स्वातन्त्र्यख्यापनाय मुक्तौ पुनर्बभ्राती- त्युच्यते ; तथाप्यनादौ संसारे कर्मणामानन्यात् अनियतफलपरिणतिकाल स्वाच्च कल्पशतातिक्रमेऽपि खफलपरिणमफलं प्राप्य कदाचित् तानि मुक्तं बध्नीयुरित्यस्येवावृत्तिभयमित्याह - अथेति । ननु पूर्वपूर्वजन्मनि कृतः कर्म शयः कर्मसङ्घातो मरणेनाभिव्यक्तेः समनन्तरजन्मने फलानि दत्वा कात्स्न्येन निवर्ततं ; ततश्च प्रतिजन्म समाप्तत्वान्न कर्मणामानन्त्यम्; अतः समनन्तरवेजन्मकृतस्य कर्माशयस्यान्त्यदेह एव कात्स्न्येन नाशान्न पुन- र्बन्धसंभावनेत्याशङ्कयानन्ये हेतुमाह-यत इति । एको भव एकजन्म, तत्र भवतीयैकभविकः । कुत इत्याह--न हीति । न हि मरणमात्र- मेवाभिव्यञ्जकम् फलं दातुमुद्योतकम्, कि तु देशकालाद्यपि ; तेन । सत्यप्यनन्तरं मरणे खदेशकालावपेक्षमाणानि कर्माणि चिरतरमप्यनुवर्तन्त इति नैकभविकत्वमित्यर्थः । कथं पुनर्न मरणमात्रमभिव्यञ्जकमित्याह तथा हीति । मरणमात्रे वह्निव्यञ्जके तदनन्तरमेव सर्वकर्माणि युगपत् फलानि दद्युः ; न चैवम्, यत एकस्मिन्नपि देहे तानि स्वं स्वं देशं कालं वापेक्ष्य क्रमेण फलानि ददति ; अतो न तेषां मरणमात्रमभिव्यञ्जकम् , अपि तु देशाद्यपौति भावः । किं च मरणमात्रेऽभिव्यञ्जके पूर्वजन्म कृतानि विरुडदेवगरनिर्यथावरजातिभोगनिमित्तानि कर्माणि मरणानन्तरं युगपत् स्वफलानि दद्युः; तत्र युगपद्विरुद्धानेकदेहोपादानासंभवादेकेनैकस्मिन् देहे कृतेऽन्येषामवापगमनं—तत्रानुप्रविश्य स्वफलजननं—स्यात् ; तदपि नास्ति । विरुबजन्मभोगानामेकत्र जन्मनि समवायासंभवदित्याह-विरू डेति । भावापापगमनासंभवादिति वा पाठः; तत्र चोपनयापनयासंभवा- दित्यर्थः । गमेमृत्यूना च तत्र जन्मन्यकृतकर्मणां न मरणाभिव्यञ्जयं देहा- विकारणं कमस्तीति मुक्तिः स्यादित्याह--गर्भातेि । तेन नैकभविकः कर्मा शयः अतश्रानादौ संसारे कर्मणामानन्त्यान्मुक्तस्यावृत्तिफलमस्तीत्याशङ्क्य तन्निव्यर्थमभयपदं योजयति--तत्रोच्यत इति । कुत इत्याह--परा हीति ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३९५
दिखावट