पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 बह्मसिद्धिव्याख्या त्यर्थः । अथ प्रकृतिः पुरुषस्य मोगकर्याय विषयाकारेण परिणमते; तच्च तया संसारावस्थायामेव कृतमिति मुक्तस्य पुनर्न करोति ; अतो नास्ति पुनरावृत्ति भयमित्याशङ्कयति--अथेति । अत्र दोषमाह-सकृदिति । सकुच्छब्दादि मुपनीय कृतकृत्या प्रक्रुतिर्न पुनरात्मनस्तदुपनयेत्; अतः संसारिणोऽपि सकृच्छब्दाद्युपलम्भः स्यादित्यर्थः । अथानन्त विकारा प्रकृतः सर्वविकार रूपेणात्मनोपलब्धा सती पुनः शब्दादिविषयाकारेण न परिणमते ; सकृ च्छब्दाद्युपलब्धौ विकृतशब्दादिरूपान्तरोपलब्धये पुनः शब्दाद्याकारेण परिणमत एव; अतश्च पुनः शब्दाद्युपलब्धिर्घटत इत्युच्यते ; ततोऽनन्त विकारस्वादेव प्रकृतिपुरुषविवेकवता मुक्तेन सर्वात्मनोपभुक्तेति तं प्रति । पुनर्विषयाकारेण परिणमेत्; अतस्तस्यापि पुनर्विषयोपोगलक्षणसंसारमयं स्यादेव ; तदेतदाह--अथेति अथ पूर्वोक्ता या अविद्या तत्पूर्वतया आत्मन्यध्यस्तं कर्मबन्धहेतुरित्युच्यते, ततः संसारस्यानादित्वेन कर्मणामान- न्त्यात् बहुनरकर्मक्षयेऽपि कर्मशेषाणां मुक्तस्यापि संभवात पुनरावृत्तिभयम- स्त्येव । अनन्तरफलदानि कर्माणि फलमनन्तरं दत्वा निवृत्तानि ; अतः कुतस्तेषां मुक्तौ संभव इति चेत् , न ; तेषामनियतविपाककालत्वात् ; अनियतविपाकस्य फलदानस्य कालो येषामिति विग्रहः ; ततश्व बहुतर कालातिक्रमेऽपि खसहकारिणं कालं प्राप्य कदाचिन्मुक्तमथि बीयुः ततश्च प्रलयावस्थात इव मुक्त्यवस्थातोऽपि पुनरावृत्तिः स्यात्; तदेतदाह अविद्योति । अविद्यानिवन्धनेऽपि बन्धे पुनरावृत्तिभयमाह - अविचेति । न तावन्मुक्तस्य हेत्वभावात् प्रयोजनामावाद्वा नाविद्या प्रवर्तते, यतो निहंतुका निष्प्रयोजना च सा; न तस्या हेतुप्रयोजनापेक्षारित ; ततश्च कदाचिन्मुक्तमपि पुनर्बीयादित्यर्थः । न चेदमसंमावनीयम्, सुषुप्ते ब्रह्म प्राप्तस्य ततः पुनरावृत्तिदर्शनादित्याह---तथा वेति । अत्राविद्यास्तीति चेत, मुक्तावपि तया भाव्यमित्युक्तम् ; अतः साम्यम् । जलप्राप्तिश्च सुषु- तस्य “ “ सति संपद्य न विदुः ” “शतं संत्पस्यामहे ” इत्यादिश्रुत्योक्तेति द्रष्टव्यम् । तथा स्वतन्त्रेऽपि ब्रह्मणि खतो भिन्ननामभिन्नानां वा जीवानां विभज्य मोगक्रीडाविभूतिख्यापनसभावाद्यैर्हतुभिंदेहेन्द्रियभोगानां हेतावभ्युप गम्यमाने पुनर्वेदाविसंबन्धभयमस्तीत्याह --वंतन्ले त्विति । कुत इत्याह-