सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4B द्वोधरूपतया तुल्यत्वमुच्यते, तदविशिष्टं योगिसर्वज्ञज्ञानयोरपि; ततश्चोपा दानोपादेयभावादेकसंतानत्वं पूर्वसंतानानुच्छेदात्पुनरप्यनिर्वाणं स्यादित्याह कथंचिदिति ॥ इदानीं क्रमप्राप्तं विज्ञानपदं व्याख्यातुं तद्दशवर्यं परमतमुपन्यस्यति केचिदिति । आत्ममनःसंयोगजं विज्ञानं गुणो यस्येति विग्रहः । अविज्ञान स्वभावमते स्वतां जडामत्यर्थः सम्यगुत्खात उन्मूलिताः सकला

। बुद्धिः

सुरवदुःश्वेच्छाद्वेषप्रयतधर्माधर्मसंस्काराख्या विशेषगुणा यस्मिन्निति विग्रहः । तस्येति ; आरमतत्वस्येत्यर्थः । ज्ञानखभावोऽपि चेन्मनःसंयोगसापेक्ष जानाति तत एव तर्हि ज्ञानमुत्पत्स्यते, तेन वृथा तत्खभावत्वकल्पनेति कणभुजो भतम् । कथं स्वरूपावस्था ब्रहशब्देनोच्यत इत्याशङ्कय तस्य प्रवृत्तिनिमित्तमाह-सा हीति । देहादिभिरनवच्छिन्नत्वं बृहवे हेतुः; बृह स्वाच्च बलेति गीथते ; ‘बृह बृहि वृदौ’ इत्यस्मात् ब्रह्मशब्दव्युत्पत्ते- रिति भावः । एतच श्रौतत्वलेशद्योतनार्थमुक्तमिति मन्तव्यम् । ज्ञान स्वभावात्मपक्षे तु दोषमाह-ज्ञानखभावत्वेति । चशब्दस्तुशब्दार्थे । न तावदज्ञनंघनात् सर्वं न बुध्यते, सवेगतस्य सर्वत्र संनिधानात् । न च सर्वगतोऽप्यसर्वगतदेहेन्द्रियादिसापेक्षः सर्वे न बुध्यत, नित्यत्वाज्ज्ञान रूपस्य ; ज्ञानोत्पच्यर्थं हि देहाद्यपेक्ष्यते ; नित्यत्वादात्मने ज्ञानरूपं नित्यम् । अतश्च संनिहितविविधज्ञेयविशेषत्वात् सर्वमात्मा बुध्येत ; ततश्च बद्धस्य मुक्तस्य च यथादृष्टनियतार्थगेचरात् सर्वदर्शित्वेन बृहत्तरः संसारात् संसारः स्यादित्यर्थः । अथैतदोषभयात् न किंचिजानातीत्युच्यते, प्राप्तं तर्हि जडत्वम् गतेरिव गम्यमन्तरेण जानात्यर्थस्य ज्ञेयं विनानुत्पत्तेः । न चात्मैव क्षेयःकर्तृकर्मत्वविशेषात् । तदेतत् साशङ्कमाह-अथेति । तदेव परमतमुपन्यस्य तन्निवृत्तये विज्ञानपदं योजयति- तानिति । परः पूर्वोक्त दोषदृष्टिः पृच्छति--कुत इति । सिद्धान्ती तु न वयं प्रयोजनबलात् चित्वमाबत्वं श्रुतिबलादिति मन्यमान आह-। ब्रूमः, किं तु भूयत इति ननु प्रागुक्तदोषबलाच्छूतेरर्थान्तरत्वं कल्पयिष्याम इत्यत आह--न चेति । आदर्थान्तरकल्पन श्रुतेः, यद्युक्तो दोषः स्यात्; स तु नास्तीत्यर्थः । ।