पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 ब्रअसिडिव्याख्या दनिधनस्यात्मनो मुक्तिसंसारौ न संभवत इति क्षणिकपक्षोऽभ्युपगतः तं चाभ्युपगम्यापि चेदनादिनिधनायाः संततेरेव तविष्टं तत आत्मना कि - मपराद्धस्, येन तस्य तौ नेटौ? इत्यभिप्रायेणाह-- अपि चेति । अनादि निधनत्वमेव संततेरुपपादयति-तथा हीति । संततेनोपादः, संसारस्या नावित्वात्; उत्पादे हि न सोऽनादिः स्यात् । अवस्तुत्वाच्च संततेनोत्पावः; न चोच्छेदः, अवस्तुत्वादेव ; न श्ववस्तुनो जन्मोच्छेदौ स्त इत्यर्थः । इतश्च नोच्छेदे इत्याह--अन्येति । अनुपपत्तिमाह--स हीति । अपर आह-आरभत इति । योगिनोऽन्त्यक्षणस्य सर्वविषयत्वेन सर्वज्ञज्ञानार्थ – क्रियाकारित्वानसवम्; अतो न तदसवात् पूर्वक्षणानामसवम्; अतो न संतानाभावः । न च तस्यानुच्छेदःसंतनान्तरे सति खसंतत्युच्छेदादिति मावः। सिद्धान्ती तु पूर्वमपि हेतुफलभबानुवृत्त।वेकसंततिरासीत्; इदानी मपि चेद्योगिनोऽन्यक्षणस्य सर्वेक्षज्ञानस्य च हेतुफलभावऽस्ति, न तर्हि संतानान्तरत्वम् ; न हि हेतुफलपरंपरामन्तरेणान्यदेकसंततेर्हतुः ; अतो न संतत्युच्छेदः; अतश्च न तच्छक्षणो मोक्ष इत्यभिप्रायेणाह--सतीति । परः पुनर्विशेषमाह-नेति । ततः किमित्याह--न चेति । योगिज्ञानसंततौ। चरम इत्यर्थः । यदि नोपादानं किं तर्हि स इत्य।ह—आलम्बनति । प्रत्ययः कारणम्: विषयरूपं कारणमित्यर्थः । उपादानं तु समनन्तरपूर्वभावि झारणमुच्यत इत्याह- समनन्तरेति । तत्र सर्वज्ञज्ञानेऽन्य एव वसंतान वर्ती पूर्वक्षणःचरमस्तु सर्वज्ञज्ञानग्राह्यत्वात् विषयरूपं कारणमित्याह- खेति । सिद्धान्ती तु न तावद्यदात्मकं कार्यं तदुपादानमेव, नापि यदा श्रयः क्षणानां परस्परमनामत्वादनाश्रयत्वाच; यदि तुल्यजातीयमुपाः दानम् प्राप्तं तार्ह योगिज्ञानं सर्वज्ञानस्य ज्ञानमात्ररूपतया तुल्यत्वे नोपादानम् ; अतों न संतानान्तरत्वमित्यभिप्रायेणाह-यदीति । यदि तु सर्वज्ञज्ञानयोरसर्वेसर्वविषयत्वेन विषयभेदादतुल्यजातयित्वम्, अतो न योगिज्ञानमुपादानम् अतो विलक्षणसर्वज्ञज्ञानोरपत्तौ योगिज्ञानसंतानोच्छेद इत्युच्यते ; अतो रूपज्ञांनप्रवाहे सति यदा रसज्ञानं भवति तदापि पूर्व संतानोच्छेदादपवर्गप्रसङ्गः स्यादित्याह--योऽपीति अय तत्र कथंचि-