19 र्थभेदात् तवमोरपर्यायवम् , अथ च ताभ्यामविद्यासिद्धार्थभेदाभ्यामेक- मलौकिकं तवं गम्यते –न त्वभिधीयते, अलौकिकत्वादेवेत्मनः शब्दप्रस्र त्तिनिमित्तजात्यादिचतुष्टयविरहाच्च-एवमत्रापि ; ततश्च न दृष्टान्तवैषम्यम् , न च सहप्रयोगदोषःन च द्वैतप्रसक्तेः, अविद्यात्मकत्वादभिधेयभेदस्य ; न द्यविद्यामको भेदो द्विचन्द्रादौ मैतमासद्वयति । कल्पितस्य कथमुपाय- त्वमिति चेत्, अत्रोत्तरं वक्ष्यामः । नन्वेवं सति प्रसिद्धस्यार्थस्य बाधे कथमसात स्वार्थान्वये लक्षणा भवति ? भवतीति ब्रूमः, यथा “ गावो वा एतत्सत्रमासत" इत्यसति गवासने स्तुतिंर्लक्ष्यते ; तथा चोक्तम्-
- गवां सत्रासनं यद्वदसत् स्तुत्यङ्गतां गतम् ।
ज्ञानानन्दौ तथैवाङ्गं स्वख्यातसुखसंविदः ॥ इति । ननु युक्तं तत्र, तच्वमर्थयोरभेदपरत्वाद्वाक्यः ; इदं तु बला स्वरूपपरं वाक्यम्, नानन्दविज्ञानयोरभेदपरमपि, उभयपरत्वे वाक्यभेद प्रसङ्गात; अतः कथमत्र तयोरभेदप्रतीतिः ? न, अर्यसिद्धत्वात्; यथा खलु क्रियाविधिपरेऽपि वाक्ये द्रव्यगुणयोरेककार्यनियमः, स्यादेवमत्राप्येकप्रति बद्धत्वादुभयोरन्योन्यनियमः । स चानन्दशब्दस्य निष्कृष्टगुणवाचिनः सामानाधिकरण्यानुपपत्तेरुक्तत्वात्र गुणिस्थारुणादिशब्दवदुणगुणिभावेनबर्कल्पत इत्यर्थात तादाग्येन व्यवतिष्ठते –विज्ञानमेवानन्दः, आनन्द एव विज्ञानाभिः त्यनयोरभेदसिद्धिरिति सर्वमदुष्टम् । यदा न प्रकर्षो नाम गुणः, गुणऽपि भावात् ‘प्रकृष्टगन्धं चन्दनम्’ इति ; " द्रव्याश्रय्यगुणवान् गुणः ” इति द्युक्तम् । अत एव न द्रव्यान्तरम् । न च कर्म, कर्मणि भावाच्च ‘ प्रकृष्टगतिरश्वः' इति । जातित्वदि तु तस्य दूरनिरस्तावकांशम्_ । तस्मात् प्रकर्षों नाम तत्वतो व्यक्तिविशेष एव कश्चित्, कल्पनामात्रेण तु भिद्यते । स च व्यक्तेश्च विशेषः स्वत एव, न प्रकर्षयो गात् ; प्रकर्षस्येवाप्रकर्षात् , मिथश्चान्यथानवस्थानात् । ननु चिरेण प्रकर्षापायेऽपि चन्दनगन्धस्यानुवृत्तेस्ततोऽन्यः प्रकर्षः ; मैवम् ; गन्धोऽपि तत्र न प्राक्तनोपगत एव ; अन्य एव तूदकादिसंपर्कात् कुतश्चिद्विपक्षस्य चन्दनस्य गन्धपरिणामविरेण जात इत्यवेहि । तदेवं कल्पनयार्थमेदादपर्याय