पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
17
नियोगकाण्डः ३

नात्मा ज्ञातस्तथा स्याच्चेन्न ततूपावधानतः ।
प्रमाणान्तरसिद्धत्वे नतरामन्यथा यदि ॥ १७२ !
शब्दार्पितेन रूपेण तस्य ज्ञानं विधीयते ।
असच्वेनापि तेनास्य विज्ञानमवकल्पते ॥ १७३ ॥
ज्ञानं यदि च दृष्टार्थं प्राप्तं दृष्टत एव तत् ।
आत्मरूपविजिज्ञासोरजिज्ञासोर्यथैव तत् ॥ १७७ ॥
तदुपायो न चेज्ज्ञातस्तस्यैवास्तु विधिस्ततः ।
अवघातादिविधयो नादृष्टस्पर्शवर्जिताः ॥ १७९ !
अलौकिकमिदं ज्ञानमतो यदि विधीयते ।
न पसिद्धये तावद्यतः कर्तव्यता विधेः ॥ १७६ ॥
कर्तव्यता च दृष्टार्थे दृष्टादेव प्रसिध्यति ।
अलोकिकेऽर्थरूपेऽतः शब्देन प्रतिपादिते ॥ १७७ ॥
ज्ञाने ज्ञेयाभ्युपायत्वात् स्वयमेवोन्मुरवः पुमान् ।
तदुपाये त्वविज्ञाते विधिना स प्रवर्यताम् _॥ १७ ॥
नियोगानुप्रवेशोऽतो विहन्येव प्रमाणताम् ।
भूतार्थ इति नोपास्यो भूतार्थगतिमिच्छता ॥ १७९ ॥
अत एव न विज्ञानसंतानविधिनिष्ठसा ।
तत्रापि पूर्ववन्न स्यात् स्वरूपावगतिप्रम ॥ १० ॥
स्वरूपनिष्ठाच्छब्दातु प्रमितस्य वचोऽन्तरात् ।
उपासनविधानं स्यात् प्राप्तेस्तदपि वा वृथा ॥ । १८१ ॥
अभ्यासेन प्रत्ययस्य प्रकर्षस्याभिवीक्षणात् ।
तस्माद्भवत्यकार्येऽर्थे वेदान्तानां प्रमाणता ॥ १२

यथान्यमानव्यतिभेदमुक्ता
मतेः प्रमाणत्वमुपते कार्यं ।
अपरुषेयागमलब्धजन्म
तथेव तिडे निरपेक्षभावात् ॥ १३ ॥
॥ इति नियोगकाण्डः ॥