सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
ब्रह्मसिद्धिकारिकाः

तता ह्यध्यवसायादिर्नाकस्मान्नाभिधानतः ।
न च मोक्षः फलं तस्य साध्यो मोक्ष न चापरः ॥ १०५ ॥
अविद्यास्तमयो मोक्षः स ससार उदाहृता ।
विथैव चाद्या शान्ता तदस्तमय उच्यते ॥ १०६ ॥
प्रायश्चित्तदिशा बन्धहेतूच्छेदोऽपि न ततः ।
सर्वाविद्याप्रविलये न च्छेद्यमवशिष्यते ॥ १०७ ॥
बन्धहेतुरविद्यात्मा विद्यायां सास्तमाग।
न ब्रह्म शब्दधीगन्धं यद्यशक्यो धियो विधिः ॥ १०५ ॥
धीविशेषप्ररूपाय नसिद्धो विषयः क्षमः ।
विधिनरूपितपदो धीमांत्र न विधीयते ॥ १०९ ॥
विधिः स्वसिद्धिनिष्ठो वा क्रियासिद्धिपरोऽथवा ।
अद्वैतब्रह्मतवस्य प्रतिपत्तिरहेतुका ॥ ११० ॥
विनियोगादधिगतियस्या ज्ञानक्रियार्थता ।
अतत्परा न प्रमाणं सार्थवादस्थबुद्धिवत् ॥ १११ ॥
विचिः क्रियागोचरत्वान्न द्रव्ये ब्याटुतिक्षमः ।
सचान्वयातु तत्सिद्धिः प्रत्युतेति स दुष्यति ॥ ११२ ॥
विशिष्टान्यक्रियाबोघः प्रमाणं च विशेषणे । ।
प्रतिपत्तिर्विशिष्टापि विषयस्य नियोगतः ॥ ११३ ॥
सत्तां न साधयत्येव समारोपेण संभवात् ।
ननु नो विपरीतार्था धीः प्रतीतिविरोधतः ॥ ११४ ॥ ।
अनाश्वासच रजतप्रत्ययो रजते स्मृतिः ।
नैतन्न हि प्रवर्तेत युक्तिकाशकळे तदा ॥ १११ ॥
२जते स प्रवृत्तिश्चेन्न तस्यासंनिधानतः ।
भसंनिधानाबोधच्चेत् प्रवृत्तिनियमः कुतः ॥ ११६ ॥
प्रवर्तते यत् तत्रैव तत्तत्संनिधिकारितम्।
अन्यत्र भेदग्रहणाद्विवेकग्रहणात्तथा ॥ ११७ ॥