पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओम

॥ चतुर्थः (मिडि)काण्डः ॥

एवं तावत् प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेन यैरप्रमाण्यमुक्तं तत्प्रति बाधनाय छतः प्रयत्नः ; इदानीं त्वप्रामाण्यमेवाहुर्ये तद्वोधनाथ प्रयत्यत । तत्र पूवेः पक्षः -

नन्वन्चितपदार्थत्वाद्वाक्यार्थस्य पदार्थताम् ।

अप्राप्य न स्याद्वाक्यार्थः पदर्थत्वेऽन्यमानकः ॥ १ ॥

न ताबद्लान्तर्याम्यादिपदं प्रमाणम् , संबन्धज्ञानापेक्षया पूर्वसिद्धे प्रत्ययहेतुत्वेन । नापि वाक्यम् ; न हैिं तत् साक्षाद्वचकम् ; पदार्थद्वारा तु तत प्रतिपत्तिः, अपदार्थ ज्ञानस्याभावात् । ते हि संप्रगटुणप्रधानभावे नेतरपदार्थविशिष्टमेकं पदार्थं गमयन्ति । तत्र पदार्थ एव विशिष्टो वक्याथों भवति । न बनधिगतेषु प्रमाणान्तरेण पदार्थवम ; संबन्धज्ञ नापेक्षण(त् इत्युक्तम् । तत्रापर्थत्वे वाक्यविषयत्वम् ; अनवबोधकं तेषां वक्यम् । पदथेचे प्रमाणान्तरचगतंरनुबादकम् । तत्रात्यन्तापरिदृष्ट- ब्रह्माद्यर्थप्रमाणाभिमतेषु वाक्येषु तद्वाचीनि पदानि स्युः, न वा। यदि न सान्ति, न त इतरैः संसृज्येरन् न भिद्येरन्निति न तेषां प्रमेयाःलोष्टादि वत् । अथ तु सन्ति, तथापि तैरधिगतसंत्रर्थे प्रतिपारम् अप्रतिपन्नाश्च न विशिष्टवाक्यार्थप्रतिपत्तिहेतवः; तत्र यथा ‘वमात् पिक आनयताम्' इति पिकपदार्थाज्ञानेऽनयवधकवं तथा तेषामपि । तस्मान्न चोदनातोऽपूर्व- पदार्थावगमः ; सा हि विधिप्रतिषेधाभ्यां क्रियासु पुरुपमधिकरोति ; नैबि- द्यवृद्धपरिग्रहस्तु जपोपयोगात् , उपनिषदो वेदान्ताः - इति सत्र विनियोगात् तत्रोच्यते

सामान्येन पदार्थत्वे सिद्धेऽसधारणे'णैः ।

शक्यापूर्वविशेषस्य लोकवत् प्रतिपादना ॥ २ ॥


1 मैकपदार्थ-B.

2 मायाः-B.

3 अत्रोच्यते-B.

4 गृणे-B.