सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
140
ब्रह्मसिद्धिः

अपि च अन्यदेव स्मरतः पूर्वरूढमेकत्वं शशिनि द्वित्वविभ्रमः, न स्मर्यमाणाविवेकजः । न च ज्ञानेन्द्रियवृत्ति मेदाविवेकात् , तयोरप्रत्यक्षत्वाद- स्मर्यमाणत्वाच्च । शुक्तिकाहितचेतसश्च सलिलं पिपासतों न स्याद्विपर्ययः ; सलिलामासो व, स्मर्यमाणस्य खज्ञानादविवेकात् ।

न च सर्व नियोगेन भ्रान्तिः सादृश्यबन्धना ॥ १२९ ॥
शेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः ।
किंचित्साङयतो हि स्यान्न कश्चित्तत्र न भ्रमः ॥ १३० ॥
तस्मादिन्द्रियदोषाणां सामर्थस्य विभागतः ।
अमेतु नियमो दोषदग्नहे न भ्रमे यमः । १३१ ।

यदि च सदृशदर्शनात् सडशस्मृतेर्नुमः, कथं श्वेते पीतभ्रमः मधुरे वा । तिकभ्रमन्तिः ! आन्तरपित्तसंवेदने, अव्यापारयतोऽपि बहिरिन्द्रियं स्यात्; अत्र नवशक्षिगतस्य तद्तकृष्णिमादेवश्चढश्यत्वात् । किंचित्सादृश्ये सर्वप्रकार- भ्रमप्रसङ्गः । तस्मादिन्द्रियदेषसामर्थभेदान्नियता विषर्ययोत्पत्तिः । अग्रह- मात्रे तु दोषम्यापारे कामिलादिदोषाद्भान्तिनियमो न स्यात् । न हि। सादृश्यनिमित्तः . असदृशेऽपि भ्रान्तिदर्शनात् ।

विशेषस्मरणान्नापि स्मृतावपि तंवग्रहः ।
देशकालविशेषाच न स्मृतं प्रविविच्यते ॥ १३२ ॥
अनेकदेशाधिगतं विविक्तं न पुनस्ततः ।
स्मृतिरित्यपि विज्ञानं स्मृतेरन्यदुदाहृतम् ॥ १३३ ॥
न च मानफलेनात्तत् सिध्यति फलादृते ।
सति स्मृतिविवेके च प्रत्यभिज्ञानविभ्रमः ॥ १३१ ॥
अथासंनिहितो व्यय वेद्यः संनिधिमसया ।
अविविक्तभृतेरेवं विपरीतार्यता भवेत् ॥ १३१ ॥
मनसोऽनुपघाता नासंनिध्यपरिग्रहः ।
दोष वग्रहणे हेतुरिन्द्रियाणामुदाहृतः ॥ १३६ ॥


1 ते च-A.