अविवेकोऽन्यथा तु स्यात् सदा सामान्यदर्शने ॥ १२४ ॥ |
अपि चेदं तत्रभवान् व्याचष्टाम् स्मर्यमाणं दृश्यमानात् स्वज्ञानादेव विविच्यते, न वा –स्मृतिज्ञानस्य स्वरूपमेव तादृशं’ यत् प्रमतव्याद्भवे नावभासयति, स्वरूपमात्रनिष्ठ वा । तत्र पूर्वस्मिन् स्मरणगोचरयोरविवेकः कुतः स्वज्ञानादेव विविक्तत्वात् ? इतरस्मिन्नपि ‘सदा स्मृतौ विपर्ययः । स्यात् , सामान्यदर्शने चान्यस्मृतावविवेकात् । न च तत् तथा, संशयस्यापि दर्शनाव । अथ मतम्—एकस्मृतौ विपर्ययःततोऽविवेकात् ; अनेकस्सृतौ तु संशयः, नैकस्मादविवेकात् । तदसत्; अनेकस्मरणेऽपि हि दृश्यते विपर्ययः । यदि च प्रत्यक्षेऽर्थे विशेषज्ञानात् स्मर्यमाणं विविच्यते, न खज्ञानात् ; असति तत्र विशेषज्ञाने च द्वयोः स्मृतौ संशय एव स्यात्, नैकावभासे विपर्ययः । अथ तु स्वज्ञानात् स्मृतं विविच्यते, स्मृतिविपर्ययभेदश्राभ्यु गम्यते ; तदानेकस्मरणेऽपीन्द्रियदोषविशेषावुक्तो विपर्ययः । दर्शितं चेदम् । –सामान्यदर्शनेऽपि कदाचिदेकां कोटिं स्मरतो न संशभे न विपर्ययः
दोषाणामपुष्टेः । अतः स्वज्ञानादेव तदा स्मृतं विषिच्यते, ने इषविशेष-परिच्छेदात् । एवं के कुतो इचवमानस्मर्यमाणाविवेकः
1 न्विस्मा–B, 2 --B. |
3 ता--B. 4 पे-B, |