पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
135
नियोगकाण्डः

विधिश्नरूपितपदो धीमात्रं न विधीयते ॥ १०९ ॥

न वळ ज्ञानमात्रं विधीयते; ज्ञानविशेषस्तु । न चाप्रासिद्धेऽनिरुपिते तत्र नियोगः; न ह्यन्नसिद्धे विषये नियोक्तुं शक्यते । ज्ञानस्य च विशेषोऽर्थ द्वारः; न चाप्रसिद्धोऽर्थस्तद्विशेषनिरूपणाय प्रभुः । न चात्मरूपस्य शब्दा दन्यतः सिद्धिः । शब्दादपि चेन्न सिद्धिः, तद्वरज्ञानविशेषासिद्धौ विषया- नुपयत्तेर्नियोगानुपपत्तिः ।

आपि च ज्ञानविशेषविधिवादिन आत्मतत्त्वे प्रामाण्यमेव हयित इति दर्शयति

विधिः स्वसिद्धिनिष्ठो वा क्रियासिद्धिपरोऽथवा ।
अद्वैतबझतच्वस्य प्रतिपत्तिरहेतुको ॥ ११० ॥ ।
विनियोगादधिगतिर्यस्य'ज्ञानक्रियार्थता ।
अतपरा न प्रमाणं सार्थवादोत्थबुद्धिवत् ॥ १११ ॥
विधिः क्रियागोचरत्वान्न द्रव्ये व्याप्रतिक्षमः ।
सत्तमन्वयातु तत्सिद्धिः प्रत्युतेति स दुष्यति ॥ ११२ ॥
विशिष्टान्यक्रियाबोधः प्रमाणं च विशेषणे ।
प्रतिपत्तिर्विशिष्टापि विषयस्य नियोगतः ॥ ११३ ॥
सत्तां न साधयत्येव समारोपेण संभवात् ॥ ११३ ॥

याई तावन्नियोगस्यैव कार्यता प्रतीयेत, तदा स वनिष्पत्तौ पर्यव सितः सह शब्देन ; अथ विनियोगाद्विषये कर्तव्यतावगमः, तथापि विषय- सिद्धौ; उभयथा न वस्तुतवं ‘संस्पृशति ; तत्रादृतात्मतत्वप्रातिपातिर प्रमा णिका 'स्यात्

स्यादेतत्--“ य आत्मापहतपाप्मा विजरः ” इति पदानां सामानाधि.

करण्येन संबन्धादन्यथा वा वस्तुतस्वप्रतिपत्तिरिति । तच्च न, अन्यपर-


1 खमवधयते—B.

2 जहा.

3 भ-0.

4 यते -4 and B.

5 B omitt सं.

6 प्रमा-B.

7 A and B omit

8 A comi p. Ohand. 8-7-1