सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
105
नियोगकाण्डः

यदि प्रवृच्युनीयमानप्रत्ययविशेषणत्वेन व्यवस्थितोऽनुमेयो विधायकार्थः संबन्धज्ञानविषयःन तर्हि शब्दैकप्रमणकः । अथानुमानं शब्दपूर्वक, मिति तथोच्यते, शब्दोऽपि प्रत्ययो' ऽनुमानपूर्वक” इत्यनुमानैक गोचरः स्यात् । न खछ गीजाङ्करयोरिवानयोरेकस्य प्राथम्यं व्यवस्थापयितुं शक्यम् शब्दार्थगतस्यानुमानात् , अनुमितस्य विदितसंगतेः शब्दथ्व- गमात् । अपि च सर्वप्रतिपतृणामनुमान'पूर्वा शब्दात् प्रतिपत्तिरिति तेषां शब्दोऽनुवादक एव ; तथा हि-शब्दाद्वध्यमानोऽनुमितं विदितसंगतिं नुध्यते सर्वः प्रतिपत्ता, न त्वनुमिमानः शब्दावगतमनुमिमीते । ननु शब्दाः बगत एवानुमीयते । सत्यमन्येन तु प्रतिपत्रा; न चान्यदीया *प्रतिपत्ति रन्यप्रतिपत्तिमनुवादीकरोति । प्रवृत्तिहेतुमात्रे च संबन्धव्युत्पत्तेस्तन्मात्रं शब्दार्थः स्यात् । न चलैकिकः कल्पयितुमपि शक्यः, लैकिकादपि प्रवृत्तिसिद्धेः। स्यादेतत्–वैदिकीषु प्रवृत्तिषु तदसंमवदलौकिककल्पना। नैतत्; लोकावगतसामथ्र्यो हि शब्दो वेदेऽपि प्रतिपादकः । तत्र लैकिं- षु प्रवृत्तिषु ‘लौकिके विदितसंबन्धे वेदेऽपि तत्पतिपत्तिरेव स्यात् ; असं- भवे ‘‘वा मिथ्यात्वम्

अथ बहुविधत्वात् प्रवृत्तिहेतूनां व्यभिचारादशब्दार्थत्वे प्रवृचिहेतुसा मान्यं शब्दार्थःतत्र वेदे लौकिकानां विशेषाणामसंभवादलौकिकं विशेषा न्तरं प्रतीयते; एवमपि यः शब्दार्था वेदे सामान्यं स लोकसिद्ध इति नानुवादता व्यावर्तते, पदार्थान्तवत् । योऽपि विशेषः सऽन्यासंभवेन परिशे षानुमानगोचर इति न प्रमाणान्तराविषयत्वम् _ । न च परिशेषानुमानमपि, श्रेयःसाधनतायाः® संभवात् । अथ मतम्-- लोकव्यवहार इव वेदव्यव- हारोऽप्यनादिः; तत्र वैदिकीषु प्रवृत्तिषु लैकिकप्रवृतिस्वभावात् अलौकिके


1 B omits क

2

3 A and B omit क

4 गचरता-A and B

5

6 B omita प्रतिपत्तिरन्य

7

8

9 च लौकिकः

10 प्रतिपत्ति–B

11 केषु-B

12 comits वा

साधनत्वस्य-A; साधनमर्थस्य; समस्या-B; and Bomi द; पूर्बका-A and B.