पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
103
नियोगकाण्डः

तदथोंऽनन्यगम्यो हि मीयमानः समाक्षिपेत् ॥ ७६ ॥
विषयं न यथासिद्धपदार्थरत्वनुवादभाक् । ।
अव्युत्पन्नप्रवृत्तिः स्यात् संबन्धज्ञाननिह्नवे ॥ ७७ ॥
पदं वधर्म व्युत्क्रामेदन्यसिद्धार्थतान्यथा ॥ ७७६ !

न तावद्विधिः साक्षात् संसर्गसामान्यं तद्विशेषे वा बोधयति । अथा क्षिपति, अन्यथा नियोगमत्रं निर्विषयमनर्थकं स्यात् ; पथार्थान्तरेष्वपि तुल्यमेतत् ; तेऽपि हि केवलाः पदार्थान्तरसंसर्ग मनाप्नुवन्तोऽपूर्वार्थप्रति पत्तेरभावादनर्थकाः । न च लोके पदैः 'खार्थाः स्वरूपमात्रनिष्ठतयैव प्रत्यक्ष्यन्ते ; किं तु विशिष्टार्थप्रत्ययप्रयुक्ताः, तथा व्यवहारोपपत्तेः । तथा च प्रतिपदार्थं संसर्गाक्षेपः । स्यादेतत्-- लोके बुद्धिपूर्वप्रयुक्तानां मा भूदा नर्थक्यमिति संसर्गार्थता; वेदे तु नर्थवश्वे प्रमाणमस्ति ; अतः पदार्थ न्तरमनर्थकमेवास्तु । नैतत् सारम्; नान्यथानर्थक्यमित्यप्रमाणोऽर्थः शक्यः प्रतिपत्तुम् यस्य कस्यचित् प्रतिपत्तिप्रसङ्गात् । तस्माद्यवहारात् संसर्गप्रयुक्तस्वार्थावबोधसामथ्र्यमेव पदानां गम्यते ; ‘ततो वेदेऽपि संसर्ग- क्षेपः । यदि च न्यपदार्थानामानर्थक्यम्, विध्यर्थस्य तन्न कस्मात्? अथ मतम्पदान्तराणे प्रमाणान्तरसिद्धेऽर्थे प्रयुज्यन्ते ; तानि यथावगतानुवादपर्यवसितानि; तथा हि-- अनुद्यमानोऽर्थो यथावगमम- नुवादान्नापूर्वीर्थक्षेपायालम् ; विधायकस्तु शब्दोऽनन्यगम्यार्थविषयस्तदर्थः प्रमीयमाणः शक्नत्यंपूर्वमर्थमाक्षेप्तुमन्यथानवकल्पनः । तस्माद्देदे विधि- निबन्धनोः पूर्वसंसर्ग इति । तदयुक्तम्; प्रमाणान्तराविषयश्चेद्विधायकार्थः, तत्र संबन्धज्ञानमशक्यमिति निह्नयेत; तथा च संबन्धज्ञानानपेक्षत्वादव्यु पन्नोऽपि प्रवर्तेत; संबन्धज्ञानापेक्षता च पदधर्मे युक्रस्येत; तन्निरपेक्षता वाक्यधर्म आश्रीयेत । अथ संबन्धपेक्षतानस्य नि"ह्यंत, बलात्

प्रमाणान्तरसिद्धार्थतापयेत; तथा च न विशेषः ।


1 मवाप्नु -B

2 पदार्थाः-A and B

3 णार्थ:-A and B

4 बोधकत्व-A and B

5 अतो-A and B

6 A and B omit s

7 रविषय-B

8 A and B omit शन

9 संबन्शनापेक्षताA and B

10 निहयते—A