पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
101
नियोगकाण्डः

ननु प्रमान्तराधीनसंसर्गाः पुरुषोक्तिषु ॥ ७० ॥
पदार्था 'बिध्यधीनामसंश्लेषा इतरत्र तु ।
पदानां रचना तत्र विवक्षापरिपूर्तये K १ ॥
प्रमाणान्तरगम्येऽर्थे विवक्षा च व्यवस्थिता ।
विध्यर्थसिद्धये वेदे तदभावे त्वसंगतेः ॥ ७२ ॥
विशिष्टार्थ गतिर्भान्निरग्रहे प्रहविश्रमः । ७२३ ॥

विवक्षितार्थनिष्पत्तये हि लोके पदानां समभिव्याहारः । नैकपदसाध्यो विवक्षितार्थः । प्रमाणान्तरोपलब्धश्च विवक्षाविषयः । तेन तत्र प्रमाणान्त रायतः' संसर्गः । तथा च तद्विरोधेऽतंसर्ग एव पदार्थानम्-- 6 6. जरद्भवः प्रादुककम्बलाभ्याम्” इति । वेदे तु प्रमाणान्तराभावाद्दिधिनिबन्धनोऽसौ । तदभावे त्वसंभवाद्ययं विशिष्टार्थगतिरुच्यते सा भ्रान्तिः, समभिव्याहारात् । सोऽयं विवेकाग्रहे संसर्गग्रहविभ्रमः ! अत्रेदमेव विचार्यम्--कथं लोके प्रमाणान्तराधीनः संसर्गः ! इति । यदि प्रमाणान्तरेण तदवगमात् ; तदसत् , अपूर्वस्यापि तस्य प्रतीतेः; अन्यथा वचनैवैयर्यात्; अनधिगतं हि श्रोतुर्थं बोधयितुं वचः प्रयुज्यते । अथ संसर्गयोग्यतामात्रस्य प्रमाणान्तरे- णावगमात् , समानमेतद्वेदे; तथा हि—अरुणय क्रीणातीति संसर्गः नारुणयैकहायन्येति । तथा भावार्थं नियोगविषयः , न द्रव्यगुणशब्दार्थ इति प्रमाणान्तरावसितयोग्यतासामथ्र्येनैव व्यवस्थाप्यते * अथ न विवरै क' पदावगम्य, तदर्थमात्रविवक्षाया निष्प्रयोजनत्वात्; तस्माद्विवक्षाविशेष सिडिनसंसृष्टेषु पदार्थेषु 'भवतीति तया विवक्षया प्रयुक्ताः संसृज्यन्ते ; सा च प्रमाणान्तरसिद्ध इति । एवमपि विवक्षनिबन्धनः स्यात्, तरप्रयु

क्तानां संसर्गात् ; न प्रमाणान्तरनिबन्धनः ; यतो न तत्तस्य प्रतिपादकम्,


1 व्यध्य-B

2 न गतिभ्रान्ति-B

3 क्षितोऽर्थः--A ; क्षातोऽथे:-B

4 यत: संसर्गाः-B

5

6 व्यवहारा B

7 पदगम्या–A and B

8 संभवतीति-A and B