न स्मर्यमाणस्य वर्तमानप्रमाणसंबन्धः । ननु स्मर्यमाणे विनाशसंमवानैव अस्ति’ इति व्यवहारः;सत्यम् ‘नास्ति’ इत्यपि नास्ति । यदि वर्तमानप्रमाणयोगः सत्ता तद्विपर्ययोऽसत्ता , ‘नास्ति' इयव स्यात्, न च ‘अस्ति’ इति । तस्मादन्ये। सदसच्वं ।
प्रमाणयोगमात्रं चेत् सत्तासत्ता विपर्ययः ॥ ३७ ॥ |
अनाश्रितकालविशेषे प्रमाणयोगमात्रे सत्त्वे प्रमितनष्टमपि वस्तु सदिति तेनार्थक्रियाप्रसङ्गोऽनष्टेनेब, सवाविशेषात् । नष्टानष्टयोर्विशेषान्नैवमिति चेत, स एव तर्हि विशेषः सदसद्वयवहरव्यवस्थाया वेतुः कार्यध्यवं स्थाघ्र इव, न प्रमाणयोगः । तदनुसारिण्येवैषा ’ दृश्यते लोके ; न खलु प्रमितनष्टं ‘सत्’ इत्युपचरति लोकः। किं च प्रमितेऽर्थे सदसवे जिज्ञासेरन्न पुनर्लकिकाःसिद्धत्वात् प्रमाणयोगमात्रस्य तचुक्षणत्वाच्च सच्वस्य ।
अथ प्रमाणयोग्यत्वे ‘सत्त्वं नष्टच तच्च्युतम् । |
अथ मतम्--न वर्तमानप्रमणयोगः सत्ता, नानाश्रितकालं तद्योग मात्रम् ; अपि तु प्रमाणं प्रति योग्यता ; सा च नष्टाच्च्युतेति न तस्य सर्वप्रसङ्गः स्मर्यमाणे' तु' कुतश्चिच्च्युता कुतश्चिन्नेति न सर्वस्यासवमिति । एतदपि न छुन्दरम्, अभ्युपगतहननात् । तथा हि--इत्थमर्थस्वभाव एव संत्ता वणिवा भवति ; प्रमाणयोग्योऽर्थस्वभावः सत्ता । अर्थसभावनिबन्धन एव सदसद्वयंवहारविभागः, न प्रमाणतदभावोपाधिःतस्य वेष कथनोपायः न प्रमाणसंस्पर्शः, यथा ‘नीलाकारज्ञानयोग्योऽर्थो नीलः’ इत्याख्यातेऽपि
न नीलशब्दो नीलज्ञानोपाधः । तथा च सोऽस्तिशब्देनाभिधीयत इत्यर्थ-
1 A adds इति 2 न चB 3 कB 4 सताइA and B |
5 कालविशेष-A 6 चै—A 7 मणातु—A 8 3 adds स्यं |
9 मे-B 10 ग्या-B |