पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
62
ब्रह्मसिद्धिः

चित्रोऽपि तथेति नारूपः; तच्चास्य रूपं नीलपीतादिनिर्मासः । तथा नगर त्रैलोक्यादिबुद्धयो विविधविषयाकार निर्भासन्ते मेदाभावेऽपीति विषयाकार ज्ञानवादिनो मन्यन्ते । न चैक'बुडितवाव्यतिरेकाद्विषयाकाराः परस्पर-

तोऽपि व्यावर्तन्ते, प्रागेव बुद्धेः । स्यादेतत् चित्रमपि रूपं संसर्गादेवैकार्थसमवेतसमवायलक्षणात् तथा वभासते । °तदसत्; यतः

न च संबन्धिसंबन्धः संसर्गं व्यवधानतः ॥ १५ ॥

संश्लेषो हि संसर्गः; ततश्च परस्पररूपावभासःस चाव्यवधाने युज्यते; न तु स्वाश्रयाभ्यां व्यवधाने ; अवयवावयविरूपयोरेकव्यवधानेऽ. प्यसंश्लेषः, किमु द्वयव्यवधाने ।

किं च

व्यवहारे परोपाधौ सर्वा धीव्र्यावहारिकी।
अयथार्थं यदा भावभेदकल्पस्तदमुधा ॥ १६ ॥

यस्य खलु शुन्छो गौः’ इत्यादिबुद्धयो व्यवहाराङ्गभूता द्रव्येषु गुण’जा- स्युपाधिनिबन्धनाः तस्यैता न यथावस्तु, जातिगुणद्रव्याणामन्योन्यमथु न्तरत्वात् । तथा च न बस्तुनिबन्धनो व्यवहारः, उद्यानुपदर्शितस्याव्यव हाराङ्गत्वात् बुध्द्युपदर्शितस्य च तथाभावात् । एवं च प्रत्ययविर- चितेनैवायमथेन व्याख्या व्यवहारोऽनुवृत्तश्चेति व्यर्था वस्तुमेदकल्पना, कल्पितस्यापि तस्य व्यवहारेऽनुपयोगात इतरस्य चोपयोगात् । यथार्थ त्वाय 'हि व्यवहारिकीणां बुद्धनि वस्तुभेदः कल्प्यते; कल्पिते च तस्मिन् परोपाधित्वात् तासां नायथार्थवपरिहारः ।

स्यादेतत्--असति वस्तुभेदे अथथार्थमष्यनुवृत्तव्यावृत्तावग्रहं व्यावहारिक विज्ञानं नोदेतुमर्हति, बीजामावात्; न खळ स्थाणुशक्तिशकलादिषु पुरुष रजतादि विश्रान्तयो निर्वाजा|ः, सामान्यनिबन्धनत्वात् । उच्यते

अयथार्थघियो बीजमवश्यं बाह्यमेव न ।
दृष्टतािमेरकमादिरान्तरोऽपि ह्यपलवः ॥ १७ ॥


1 A omits नगर

2

3 तदप्यसत्--A

4 दयः A

5 जात्युपधाननिबन्ध नाः--A

6 तस्यैतत्-B

7 0 omitn च

8 च--B

9 अपि च--B