पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
53
तर्ककाण्डः

च्छिन्न धर्मा अनवच्छिन्नमनन्तमर्थमाश्रयन्तेऽपि न व्यश्नुवते ; अतो नैकस्मिन्नपि भावाभावविरोधः ।

यस्तु मन्यते—अर्थक्रियाभेदोऽर्थक्रियाव्यवस्था ततो भेदाधिगमः ; एकत्वे हि न व्यवस्था युज्यते ; तथा च पयसोऽपि ततैलं तिलेभ्यश्च दधि स्यात्; तथैकस्मिन् जायमाने सर्व जायेत, नश्यति च नश्येत् ; अन्यथा भेद एव शब्दान्तरेणोक्तः स्यात् ; तदुक्तम्-- १८ 'सहोत्पत्ति विनाशौ सर्वे च सर्वत्रोपयुज्येत ” इति ; तस्यापीदमेवोत्तरम्-दाहपाक विभागेनेति । यदि कार्यनानात्वं व्यवस्था, न तया तिढानां पयसअ° भेदं प्रतिपद्यते । अथ पयसो दध्नो जन्म, नान्यत इति व्यवस्था नान्यत्वं सिद्धया व्यवस्थया प्रमित्सितं तच्छक्षणमनुप्रवेष्टुमर्हति, तस्या असिद्धिप्रसङ्गात् । तस्माद्दधिजननशक्तिस्तदभावश्च व्यवस्था ; ततो भेदः ; न शेकविषये एकस्य शक्यशक्ती युज्येते इति-स चायं विरोधिधर्म योगो भेदहेतुरनन्तरमेव निरास ; यथा खलु दीर्घकालाः पदार्थ मित- झालैर्घनैः संबध्यमानास्तद्धर्माणोऽतद्धर्माणश्च न विरोधपदभाजःतथा परि मितदेशैर्विपुलदेशा अनन्ताश्च । कथमनन्तस्यान्तवान् धर्म इति चेत्, व्यति रेकेsनिर्वचनीयत्वे वा नास्त्यसंभावनावकाशः ; अव्यतिरेकेऽपि दीर्घकालस्येव मितकालः । योऽपि दीर्घकालमर्थ न प्रतिपद्यते तं प्रतीदं पुनः पठितव्यम् दाहपाकविमागेनेति । एकोऽपि वह्निः किंचिदेव दहति पचति च ; तथा च दाहकश्चदाहकल न भिद्यते ; तथा न दाहान्तरााण पाकान्तराणि वा करोति तस्मिन्नेव दाखे पाक्ये च ; तथा बीजादयः प्रत्येकं समर्था अपि नाडूरान्तराणि जनयन्ति, नापि सामग्री ; तथा च जनकत्वमजनकत्वमिति । अथैकरिमन्नेव जनकशक्तिः, अन्यं प्रध्वस्तमागामिनं ‘चैकं किं न जनयति ? अथ तत्रैवैषां सामर्थम् , नान्यत्र तुल्यजातीयेऽपि ; कुतः ? तस्यैवोपपत्तेः, कार्यगम्यत्वच्च सामथ्र्यस्य ; तथा च न । शक्तिरशक्तिवेति विरोधः । अभेदेऽपि तर्हि पयसस्तिलानां दक्षोऽनुत्पत्तौ न विरोधः ; तथा हि-

यस्य तावद्दक्षः पयसो जन्म न तस्य तिलेभ्योऽनुत्पात्तिः, येन शक्यशकि


1

2 A ०nit न

3 Bomits च

4 तथापि-B

5 चैकं--O