कार्याभेद उपयुज्यते, कस्तुल्यजातीयाद्विजातीयस्य जन्म निवारयेत् ? तत्र यथा व्यावहारिकादभेदात् कार्याभेदः, तथा व्यावहारिकाद्वेदात् कार्य भेद इति न विशेषः । स्यादेतत्--कम्पितश्चेद्भदः कार्यभेदाय प्रभुःन तर्हि कल्पितः; न अन्यत् परमार्थसतो लक्षणमर्थक्रियासामथ्र्योत्; तुल्यमि दमभेदेऽपि ।
योऽ'पि मन्यते--युगपद्विरुद्धार्थक्रियादर्शनानेदावगतिः; तथा हि- जननमरणवृद्धिक्षयस्थानगमनशोकहर्षादिविविधविरुद्धर्मसमुपेतमेकदा विश्व मुपलभ्यते ; तद्वेदवदिति गम्यते ; तस्यापीदमेवोत्तरमवृथा-दाहपाक- विभागेनेति । कथम् ? इदं तावदयं प्रष्टव्यः- को विरोधार्थः ? यथैकत्रासं भवः, सोऽसिडः । अथ परस्परव्यवच्छिन्नत्मता, जननादयश्च ‘परस्पर रूपनिवृत्यात्मान इति ; न ततो मेदसिद्धिः, एकस्मिन्नपि वह्नौ दग्ध्वपक्तृत्वदर्शनात् ; न हि परस्परव्यवच्छेदमन्तरेण नानात्वं धर्माणाम् ततश्रेझेदःनानेक धर्मकमेकं किंचित् स्यात् । अथ परस्पराभावामतैव विरोधः-नैकस्मिन् स एव भवति, न च भवतीति ; ततो भेदावसायः; तदसत्; न वेवं धर्मावेव ; कुतस्तयोर्विरोधाद्देदावगतिः ? खपुष्पादिषु चोभयाभावादुभयप्रसङ्गः। अथ 'वध्यघातुकभावो विरोधः-हर्षः शोकं इन्ति, शोकश्च तम्; एवमितरेष्वपि ; तत्रापि नाजात एकोऽन्यं नाशयति, नान्याधिकरणम् ; तस्मादेकाधिकरणो भूत्वा नाशयतीति वाच्यम् ; एवं च तयोरेकाधिकरणत्वदर्शनान्न तद्दर्शनेनाधिकरणभेदानुमानमव्यभिचारम् । अय भावरूपतद्यवच्छेदात्माने धर्मा विरोधिनः-नित्यत्वानित्यत्वमूर्त- त्वामुर्नरवादयः; तत्संबन्धाद्वेदगतिः ; तदपि न ; नावश्यम् , यो यतो यत्र भवति, स तं व्यामोति ; न हि रथादयस्तसंयोगादयो वा नभो
व्यश्नुवते, अन्यान्वा संयोगिनः पृथिव्यादीन् , अवच्छिन्नत्वात् । एवमव
1 A and comit अपि 2 सामथ्र्यावृत्या-ईB 3 पस्पनामात्मानः |
4 A omite एकं 5 फेदगतिःA 6 E omits च 7 बाध्यबाधकभाव--E |
8 संयोगा वा–A and |