पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
29
ब्रह्मकाण्डः

यत प्रतिग्रामं वक्तुः श्रोतुश्च सत्यामर्थप्राप्तौ प्रमाणान्तरेणानधिगते परदेश प्राप्यभिप्राये पूर्वापदेशान् पूर्वार्थानेव पार्श्वस्थाः प्रतिपत्तारः’ प्रतिपद्यन्ते, परदेशोपदेशं च स्वार्थनिष्ठम् ; यद्यपि वस्तुस्थित्या पूर्वपदेशार्थाः परोप कारिणः, तथापि न शब्दस्य तात्पर्यम्, द्रव्यार्जनादिविधेरिव क्रतुविध्य थपकारेऽपि ; शब्दवृत्तानुसरण चेह तात्पर्यम् , प्रमाणान्तराभावादिति । अपि च अध्वग्रामोपदेशानां तपरत्वाध्यवसायेनैव तत्र गमनम् अर्थप्राप्तिश्च ; तत्र परदेशप्राप्तिपरतायां तु न नियोगतस्तत्र गमनम् ; मार्गान्तरेणापि तमाप्तेर्विवक्षितत्वात् गच्छेत् ; न च नियोगतोऽर्थप्राप्तिः, अन्यपरेषु प्र योजनश्रुतेरप्यर्थवादत्वात् ६ तदिह यदि विधिनिषेधाः कार्यान्तरपराः, न स्वर्गाः दिकार्याः; न “खळ स्वर्गादिकार्यं प्रयाजादिकार्यतुल्यम् , येन कार्यान्तर- मनुपतेत् । कथं च दृष्टेनैवात्मज्ञानाधिकारोपकारिण इति वक्तव्यम् यदि तावद्रागाद्याक्षिप्तदृष्टार्थप्रवृत्तिनिरोधेन, भवतु प्रतिषेधानामेवंभावः ; कर्मविष यस्तु कथं निरुन्धन्तीति वाच्यम् 3 न हि ते परिसंख्यायकाः, ईन च नियामका', अत्यन्तमप्राप्तार्थत्वात् ; प्राप्तार्थं " हि विबिरन्यनिवृत्तिफलो विज्ञायतें ; न च तुल्यकार्यत्वेन विरोधेन निवृत्तिः ; अनियतकालफला हि नैयोगिन्यः प्रवृत्तयोऽद्वयार्थः; दृष्टाथोस्तु रागाचाक्षिप्तः स्वाभामिन्यः ; न न साहण्याः सेवायाश्च ग्रामेषायत्वे कश्चिद्विरोधःएतावति प्रमाथवा च्छालास्य; तत्र युगपत् क्रमेण वा फळभूमार्थिनः सेवासादहर्यावभृतिष्ठतः । विरोधः ? अपि च सकलदृष्टार्थप्रवृत्तिनिरोधे नियोगनिष्ठा अपि प्रवृत्तयो गिल ध्येरन्, अनार्जितधनस्य साधनविकलस्य तासामसंभवात् । अपि च दुवे कामोपायत्वे दृष्टादृष्टार्थप्रवृच्योर्न . विशेषो रागाद्याक्षिप्तत्वे ; तया हि स्वर्गकामः’ इति रागवाक्षिप्तप्रवृत्यनुवादेन विशेषविधानम् तथा च प्रपथा- भिनिवेशे तुल्ये केन विशेषेण एका आस्मज्ञानानुगुण्यं भजतेतद्विरोधिन्यपरा! कामाक्षेपो अविशिष्टो मनसः । अथ कामोपायत्वमेव न मन्येत, वर्णित

माकस्मिकम् , उक्तञ्च न्यायः प्रत्युद्येते ; तुल्यकार्यनिबन्धनत्वाच्च वि


1 देश-t.

2 र:Had B.

3

4 शब्दस्य तत्र-A.

5

6 नापि or न —A.

7 नियामका वा-O.

8 निबन्धना-A and