सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
15
ब्रह्मकाण्डः

तावेव; तदेतदस्माभिरुच्यमानं किं न भवतोऽभिमतम् ; उक्तमेतत् कल्पितविषयावेव संसारमोक्ष, न परस्मिन् परमार्थे । अपि च अभ्युपग म्यापि क्षणिकं विज्ञानमनादिनिधनाया एव संततेर्मुक्तिसंसारावभ्युपेतौ । तथा हि-संततेः अनादित्वात् संसारस्य अवस्तुत्वाच्च नोत्पादः नोच्छेदः 'अवस्तुत्वात् अन्यक्षानुपपत्तेश्च । स वन्स्यः क्षणः किंचित् कार्यमारभेत वा, न वा ; आरम्भे नान्त्य इति तदभावान्नोच्छेदः; अनारम्भे सर्वशक्तिविर हादसल्लक्षणात् तस्यासच्वम्; तस्मिन्नसति सर्वेऽप्यनेनैव क्रमेणासन्तः संता निनः स्युः; तदभावे . संतान एव नास्ति, कस्योच्छेदः? अथारमत एव: कार्यमन्यः संतानान्तरे सार्वजे, सति हेतुफलभावे कथं संतानान्तरम् । हेतुफलभावादन्यदेकसंततेर्यवस्थापकम् । न हेतुफलभावमात्रादेकसंतति व्यवस्था, अपि तु उपादानहेतुफलभावात् ; न च सार्वज्ञस्य ज्ञानस्य चर- मक्षण उपादानम् ; आलम्बनप्रत्ययो हि सः; समनन्तरप्रत्ययश्चोपादानम् खसंततिपतितसमनन्तरप्रत्ययजन्यं च सर्वशं ज्ञानम् ; आलम्बनप्रत्ययोऽस्य चरमक्षणः । यदि तुल्यजातीयमुपादानम्, न मुक्तवित्तसार्वक्षज्ञानयोस्तु ल्यजातीयता नास्ति । योऽपि मन्यते—‘विलक्षणकार्यं संतत्युच्छेद इति, तस्य रूपज्ञानप्रबन्धे विषयान्तरविज्ञानान्निर्वाणप्रसन्नः : कथंचितुल्यतायाम- निर्वाणमित्यलमतिप्रसजेन ।

केचित्तु-विज्ञानगुणमविज्ञानस्वभावमात्मतत्त्वमिच्छन्तः समुतवातसकल विशेषगुणे स्वरूपे तस्य स्थितिं बक्षप्राप्तिमाहुः सा हि तवावस्था देहे न्द्रियाद्युपाधिभिरकृतावच्छेदा बृहती बशेति गीयते । ज्ञानस्वभावत्वे । सर्वगतस्य देहेन्द्रियनिरपेक्षस्य नित्यत्वात् शनखरूपस्य संनिहितविविध ज्ञेयभेदस्य हत्तरः संसारः स्यात् । अथ न विजानाति किंचित्, न तर्हि ज्ञानखरूपः, सकर्मको हि जानात्यर्थं नासति कर्मसंबन्धे युज्यते । तान् प्रत्याह-विज्ञानमिति । कुतः? धूयते हि. — 'सत्यं ज्ञान‘मनन्तं बस ', « °विज्ञानमानन्दम्” इत्यादि । न चोकदोषः; यथा दाहकोऽपि वहि.

रुपनीतं दाङ दहति, नानुपनीतमदाघं च ; यथ च स्फटिक़दर्पणादयः


1 A unite अवस्तुत्वा

2 A comits स्यु:

3 प्रत्ययोपजन्यं त्वसार्व सं—B; प्रत्ययं . च

4 विलक्षणे-A and B

5 प्रतिबन्धे–C

6

7 Iait, 2-1-1

8 omics अनन्तं प्रम

9 B¢h. 8-2-28-7