पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
11
ब्रह्मकाण्डः

दर्शयतोऽङ्गसाकल्यवैकल्यविभागेन रागद्वेषविभागः । चित्रपुस्तादिकृत वा विकलाविकलादिभेदेन चित्राणि तानि तानि कुर्वतम् , बालानां च मृन्मयादिभिः प्रतिकृतिभेदैर्विचित्रैः क्रीडतां न तेषु किंचिहैषयं नैर्गुण्यं कर्माशयानुरोधेन च विदधतो वैचित्र्यं न दोष इत्याचार्याः चनीश्वरस्त्वदोषः; न हि सेवाभेदानुरोधेन फलभेदप्रदः प्रभुरप्रभुर्भवति । तथा शुद्धस्याप्यशुद्धो विकारः ; न हि प्रकृतिविकारयोरत्यन्तमवैलक्षण्यम् ; प्रकृतिविकारभाव एव न स्यात् । द्रवाणां च /पां करकादिः कठिन विकारःतथाचेतनस्य गोमयस्य चेतनो वृश्चिक इत्यादि बहुविधं प्रकृतिविकारवैलक्षण्यमुत्प्रेक्षितव्यमित्यलमतिप्रसङ्गन ।

ननु जीब अपि बहतस्वाव्यतिरेकाद्विशुद्धस्वभावाः; तत् कथं तेष्व विद्यावकाशः ? वार्तमेतत्; न ‘च तावद्विम्बादवदातान् प्रतिबिम्बं कृपाणादिषु भिन्नम्; अथ च तत्र श्यामतादिरशुद्धिरवकाशं लभते । विश्रमः स इति चेत्, समानमेतजीवानामप्याडर्विभ्रमः ; अन्यथा दुरवापैव विशुद्धिः स्यादित्युक्तम् । स्यादेतत्--*कृपाणादयो मुरवे विश्रा न्तिहेतवःतथेहापि विभ्रमहेतुर्वाच्यः । अनादौ विभ्रमे हेत्वन्वेषणमसां प्रतमिव । तथाच “ स्वमादिवदविद्यायाः प्रवृत्तिस्तस्य किंकृता” इति प्रत्युक्तम् । ननु स्वाभाविक्यनादिरविद्या निहेतुः, सा कथमुच्छिवेत ? सर्वशास्त्राण्येव तावन्नैसर्गिक्या अविद्याया उच्छेदाय प्रस्थितानि ; अपि च आर्थिवानामनां श्यामतानादिः पाकजेन वर्णेन निवर्यते । ननु स्वाभाविकमपि किंचिद्विलक्ष णप्रत्ययोपनिपातान्निवर्तताम्; ऐकात्म्यवादिनस्वनागन्तुकार्थस्य तदभावात् कुतो निवृत्तिः ? न खल्वामखभाव एव विद्या अविद्यानिवर्तिका, अविद्याया- स्नया सह वृत्तेरविरोधात; विरोधे वा नित्यनिवृत्तेर्नित्यमुक्तं जगत् स्यात् । न च विद्यान्तरमागन्तुकं विरोधि निवर्तकम्, ऐकात्म्यवादे व्यतिरिक्तस्य तस्ययोगात्, आगन्तुकस्य बह°स्वभाववानुपपत्तेश्च । तदुक्तम्-

ॐ स्वाभाविकीमविद्यां तु नोच्छेतुं कश्चिदर्हति ।
विलक्षणोपपाते हि नश्येत् स्वाभाविकं कचित् ॥


दर्शयतोंशं(श)--B

पुस्तकादि-A and B

3 C omit= च.

कृपाणादयो भ्रान्ति--c.

3 sloka-एकrica, page 868.

स्वभावानु--A and c.

दईतति--B