पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्याये तृतीयः पाद: । । अत्र पूर्वपक्षे जातिशूद्रस्यापि ब्रह्मविद्यायां त्रैवार्णिकादविशेषः फलं सिद्धान्ते ततो विशेष इति विवेकः । छान्दोग्ये (४. २. ३) संवर्गविद्यायां श्रूयते –'अह- हारे त्वा शूद्र तत्रैव सह गोभिरस्तु' इति । तत्र श्रयमाणस्य शूद्रस्य ब्रह्मविद्या- यामधिकारोऽस्ति न वेति सन्देहे अस्तीति पूर्वः पक्षः । सिद्धान्तस्तु अस्य जानश्रुतेः क्षत्रियस्य तदनादरश्रवणात् तस्य हंसस्यानादरश्रवणाद् या शुगुत्पन्ना सा शूद्र- शब्दे (न) सूच्यते । हि रैकेण स्वसर्वज्ञत्वज्ञापनार्थम् | योगेनापि शूद्रशब्दस्य क्षत्रियपरत्वमाह तदाद्रवणात् । तं रैक्कं प्रति जानश्रुतिर्विद्याराहित्यजनितया शुचा दुद्रावेति शूद्रो जानश्रुतिरुच्यते । अतो न शूद्रस्याधिकार इत्यर्थः ॥ ३४ ॥ ननु मुख्य एवं शूद्रो जानश्रुतिरस्तु किं जघन्येन योगेनेत्यत आह क्षत्रियत्वगते श्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥ - " जानश्रुतिर्न मुख्यशूद्रः कुतः, क्षत्रियत्वगतेः । तत् कस्माद्, उत्तरत्र संवर्गविद्यावाक्यशेषे चैत्ररथेन प्रसिद्धक्षत्रियेणाभिप्रतारिणा समभिव्याहारात्मक. लिङ्गादित्यर्थः । समानजातीयानामेव हि प्रायेण सहचारो भवतीति भावः । अतो न जातिशूद्रस्याधिकार इति सिद्धम् ॥ ३५ ॥ ननु कस्मान्नाधिकार इत्यत आह -- संस्कारपरामर्शात् तदभावाभिलापाच्च ॥ ३६॥ 'तं होपनिन्ये' (श. ब्रा. ११. ५. ३. १३) 'अधीहि भगव इति होप- ससाद’ ‘(छा. ७. १. १) इत्यादिविद्याप्रदेशेषूपनयनादिसंस्कारपरामर्शात् । तर्हि शूद्रस्याप्युपनयनं कल्प्यतामित्यत आह तद्भावाभिलापाच्च 'न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति' (मनु. १०. १२६) इत्यादिनोपनयनादिसंस्कारा- भावाभिधानादित्यर्थः ॥ २६ ॥ किञ्च - तद्भावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥ तस्य जाबालस्य सत्यवचनेन शूद्रत्वाभावनिर्धारणे सत्येव गौतमस्य विद्यो- पदेशे प्रवृत्तिदर्शनाद् । अतो न शूद्रस्याधिकार इत्यर्थः ॥ ३७ ॥ अपि च- श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥ ३८ ॥