पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥ ब्रह्मविद्यायां देवादीनामनधिकारं जैमिनिराचार्या मन्यते, कस्मात्, मध्वादिष्वसम्भवाद् ' असौ वा आदित्यो देवमधु' (छा. ३. १. १) 'आदित्यो ब्रह्मेत्यादेशः' (छा. ३. ११. १) इत्यादिषु मधुब्रह्माध्यासेनादित्यदेवतोपासनेषु मनुष्याधिकारकेषु तेषामेवादित्यादीनामधिकारासम्भवात् । न ह्येकस्योपास्योपास- कभावः सम्भवति तस्य भेदनिष्ठत्वात् । तथा चायं प्रयोगः- 'ब्रह्मविद्या न देवादीनधिकरोति विद्यात्वान्मधुविद्यावद्' इति ॥ ३१ ॥ ननु कचिदनधिकारान्न सर्वत्रानाधिकारोऽस्ति ब्राह्मणस्य राजसूयानाधि- कारेsपि बृहस्पतिसवेऽधिकारादित्याशङ्कयाह- ज्योतिषि भावाच ॥ ३२ ॥ अलौकिकयोरादित्यशब्दप्रत्यययोज्योतिर्मण्डले भावात् तेषामस्मदादिवदि- ष्टानिष्टप्राप्तिपरिहाररूपचेष्टाया अदर्शनेनाचेतनत्वावधारणात् तदतिरिक्तस्य चेत- नस्य विग्रहादिमतः प्रत्यक्षाद्यगोचरत्वात् तद्विग्रहादिप्रतिपादकानां मन्त्राणामन्य- परत्वेन स्वार्थे प्रामाण्याभावान्न देवानां विद्याधिकार इति सूत्रस्य तात्पर्यार्थः ॥ ३२ ॥ इत्थं पूर्वपक्षे सिद्धान्तयति- भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥ तु तुशब्दो जैमिनिमतनिरासार्थः । बादरायणस्त्वाचार्यो देवादीनां विग्रहवत्त्वेन ब्रह्मविद्यायामधिकारभावं मन्यते । कस्माद् अस्ति ह्यर्थित्वाद्यधिकारकारणम् । न हि क्वचिदधिकारो नेति सर्वत्र वक्तुं पार्यते निर्गुणविद्यायां सम्भवाद् बृहस्पतिसवे ब्राह्मणस्येव । न च विग्रहवत्त्वं नेति वाच्यम् । तदप्यस्ति हि । तत्तत्प्रतिपादक- मन्त्राणां मानान्तरविरोधाभावेन प्रमाणत्वादिति दिक् ॥ ३३ ॥

  • ९ अपशूद्राधिकरणम्

पूर्व यथा 'तद्यो यो देवाना' मिति देवशब्दश्रुत्या मनुष्याधिकारनियमापवा- देन देवानामधिकार उक्तस्तथेह शूद्रशब्दश्रुत्या द्विजाद्यधिकारनियममपोद्य शूद्रस्या- व्यधिकारोऽस्तीति दृष्टान्तसङ्गत्येदमाह- शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ॥ ३४ ॥