पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां ब्रह्मोपास्यमित्यभिहितम् । अधुना विनैवोपाधिकल्पनां साक्षादेव परमात्मोपासना- परिग्रहे विरोधाभावं जैमिनिराचार्यो मन्यत इत्याह- •साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥ २२ वैश्वानरस्य पूर्वापर पर्यालोचनया ब्रह्मत्वे निर्णते विश्वश्वासौ नरश्चेति विश्वनरः सर्वात्मकः, विश्वनर एव वैश्वानर इति योगेन वैश्वानरशब्दो ब्रह्मपर- तया नेतव्य इति तात्पर्यार्थः ॥ २८ ॥ ननु परमात्मपरिग्रहे कथं प्रादेशमात्र श्रुतिरित्याशङ्कच तां व्याख्यातुमाह- अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥ अनवच्छिन्नस्यापि परमात्मनः प्रादेशमात्रत्वमुपपद्यते । कस्मात्, अभिव्य- क्तेः । उपासकानामनुग्रहाय परमेश्वरो हृदयादिस्थानेषु प्रादेशपरिमाणोऽभिव्यज्यते किलेत्याश्मरथ्य आचार्यो मन्यत इत्यर्थः ॥ २९ ॥ मतान्तरमाह - अनुस्मृतेर्बादरिः ॥ ३० । प्रादेशमात्रहृदयपुण्डरीकस्थेन मनसानुस्मृतेर्ध्यानात् प्रादेशमात्र इत्युपच- र्यत इति बाढरिराचार्यो मन्यत इति ॥ ३० ॥ मतान्तरं चाह- सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥ मूर्धप्रभृतिचुबुकान्ते प्रादेशमात्रे वैश्वानरस्योपास्यत्वप्रतिपादनात् परमेश्व- रस्य प्रादेशमात्रत्वं सम्पन्नं ततः प्रादेशमात्रत्वसम्पत्तेः प्रादेशमात्र श्रुतिरुपपद्यत इति जैमिनिराचार्यो मन्यते । अस्मिन्नर्थे श्रुत्यन्तरसंवादमाह सूत्रकार: 'तथा हि दर्शयति' 'प्रादेशमात्रमिव ह वै देवासुविदिता अभिसम्पन्ना' इत्यादिवाजसनेय- ब्राह्मणं मूर्धादिचुबुकान्तेषु प्रभृतीन् पृथिव्यन्तानवयवांमैलोक्यात्मनो वैश्वानरस्य सम्पादयत् प्रादेशमात्रसम्पत्तिं परमात्मनो दर्शयतीत्यर्थः ॥ ३१ ॥ प्रादेशमात्र श्रुतिः सम्पत्तिनिमित्तेत्यत्र श्रुत्यन्तरमाह- आमनन्ति चैनमस्मिन् ॥ ३२ ॥