प्रथमाध्याये द्वितीयः पादः । २१ स्मृतौ परमेश्वरस्यैवक्तत्वात् तन्मूलभूतश्रुतौ विद्यमानवैश्वानरशब्दः परमात्मपर एवेति तात्पर्यम् । सौत्र इति शब्दो हेतौ । यस्मादेवं लिङ्गमस्ति तस्माद् वैश्वानरः परमात्मैवेति सिद्धम् ॥ २५ ॥ सिद्धान्तं विधान्तरेणाक्षिप्य समाधातुमाह - शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्टयुपदेशा- दसम्भवात् पुरुषमपि चैनमधीयते ॥ २६ ॥ शब्दस्तावद्वैश्वानरशब्दो न परमात्मपरः, जाठरादौ रूढत्वात् । आदि- शब्देन 'हृदयं गार्हपत्यः' (छा. ५. १८.२) इत्यग्नित्रेताकल्पनं 'तद्यद्भक्तं प्रथममागच्छेत् तद्धोमीयम्' (छा. ५. १९. १) इत्यादिना प्राणाहुत्याधारता - सङ्कीर्तनं च गृह्यते । एतेभ्यो हेतुभ्यो जाठर एव वैश्वानरः । किञ्चान्तः प्रति- ष्ठानात् 'पुरुषेऽन्तः प्रतिष्ठित वेद' इति वैश्वानरस्यान्तः प्रतिष्ठान श्रवणाद् जाठर एव वैश्वानरो न परमात्मेति चेन्न । कुतः, तथा दृष्ट्युपदेशात् तथा जाठररूपेण परमेश्वरस्य दृष्टेरुपास्तेरुपदेशात् । 'मनोमयः' (छा. ३. १४. २) इत्यादिवत् । यद्वा तथा तस्मिन् जाठरे परमेश्वरदृष्टेरुपदेशात् 'मनो ब्रह्मेत्युपासीत' (छा. ३. १८. १) इतिवत् । ननु जाठर एव मुख्यो वैश्वानरोऽस्तु तत्राह असम्भवात् । 'मूर्धैव सुतेजा' इत्यादेजठरे तावदसम्भवादित्यर्थः । किञ्च पुरुषमपि चैनं वैश्वानरं वाजसनेयिनोऽधीयते – ‘एतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद’ (श. ब्रा. १०. ६. १. ११) इति । अतः परमेश्वरस्य सर्वात्मकतया पुरुष- विधत्वाद्युपपत्ते॑र्वैश्वानरः परमात्मैवेति सिद्धम् ॥ २६ ॥ - इत्थं द्युमूर्धत्वादिविशेषस्य जाठरविषयत्वं सन्दूष्य देवतादिविषयत्वं दूष- यितुमाह - अत एव न देवताभूतं च ॥ २७ ॥ देवता च भूतं च देवताभूतम् एकवद्भावाद् । उभयमपि न वैश्वानरः। कुतः, अत एव उक्तेभ्यो हेतुभ्यः । न हि विकारस्य भूताग्नेर्विकारान्तरलोकाद्या- त्मकत्वं सम्भवति । न च देवताया ऐश्वर्ययोगात् तदस्त्विति वाच्यम् । तस्याः परमेश्वराधीनैश्वर्यवत्त्वात् । अतो वैश्वानरः सर्वात्मकः परमात्मैवेत्यर्थः ॥ २७ ॥ पूर्व जाठरार्थत्वं वैश्वानरादिशब्दस्याभ्युपेत्य जाठरोपाधिकं जाठरप्रतीकं वा
- 'प्रतिष्ठानाच नेति' इत्येव सूत्रपाठा बहुलं दृश्यन्ते.