पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्याये द्वितीयः पादः । परं ब्रह्मेति शास्त्रदृष्ट्या पश्यन्नेवमुक्तवानित्यर्थः । तत्र दृष्टान्तः यथा वामदेवः शास्त्र - दृष्ट्याहं मनुरभवमित्याह तद्वत् । इत्यतो ब्रह्मपरमेतद्वाक्यमिति सिद्धम् ॥ ३० ॥ नन्वेवमपि न ब्रह्मपरमिदम्, अपि त्वन्यपरमित्याशङ्कयाह- जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रिी- तत्वादिह तद्योगात् ॥ ३१ ॥ ‘वक्तारं विद्यााद्' इति जीवलिङ्गाद् 'इदं शरीरं परिगृह्योत्थापयति' इति मुख्यप्राणलिङ्गात् तदुभयपरं न ब्रह्मपरमेवेति चेन्न । कुतः, उपासात्रैविध्याद् जीवमुख्यप्राणब्रह्मोपासनानि त्रीणि प्रसज्येरन् । न च तदिष्टम् । ‘मामेवे’- त्युपक्रम्य ‘प्राणोऽस्मी’त्युक्तान्त उपसंहरति ' स एष प्राण एव प्रज्ञात्मेति, एवमुप- क्रमोपसंहाराभ्यां वाक्यैकवाक्यत्वावगमात् । किञ्च । अन्यत्र ब्रह्मलिङ्गवशात् प्राण- शब्दस्य ब्रह्माण वृत्तेराश्रितत्वादिहापि तद्योगाद्विततमत्वाद्यसाधारणब्रह्मलिङ्गयोगाद् ब्रह्मण एवायमतिदेश इत्यतिशोभनम् ॥ ३१ ॥ अस्मिन् पाद एकादशाधिकरणानि | सूत्राण्येकत्रिंशत् ॥ इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां प्रथमाध्यायस्य प्रथमः पादः । अथ द्वितीयः पादः ।

  • १ सर्वत्र प्रसिद्धयधिकरणम्

इत्थं पूर्वस्मिन् पादे स्पष्टब्रह्मलिङ्गवाक्यानां ब्रह्माण समन्वयः साधितः । अधुना अस्पष्टब्रह्मलिङ्गानां समन्वयं साधयितुं द्वितीयतृतीयपादावारभ्येते । पूर्व- स्मिन् पादे जगत्कारणत्वेन व्यापित्वादिकमर्थसिद्धम् । तदुपजीव्योत्तरपादद्वयस्योत्था- नाद्धेतुहेतुमद्भावः सङ्गतिः । अस्य पूर्वपादेन यथा पूर्व जीवादिलिङ्गबाधया ब्रह्मपर- त्वमुक्तं, न तथेह मनोमयादिवाक्ये ब्रह्मलिङ्गमस्तीति प्रत्युदाहरणसङ्गत्येदमारभते- सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ अस्ति पूर्वपक्षे जीवस्योपास्तिः, सिद्धान्ते ब्रह्मण इति फलम् । छान्दोग्ये(३- १४-१, २) शाण्डिल्यविद्यायामिदमाम्नायते - 'स ऋतुं कुर्वीत, मनोमयः प्राणशरीरो