पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां प्रत्यभिज्ञानं न सम्भ- दिवि दिव इति विभक्तिभेदेनोपदेशाज्ज्योतिर्वाक्ये बतीत चेन्न । कुतः, उभयस्मिन्नपि विभक्तिभेदेनोपदेशद्वयेऽपि प्रधानप्रातिपदि- कार्थेन प्रत्यभिज्ञाया अविरोधात् । प्रकृतत्रिपाद्ब्रह्मपरामर्शियच्छब्दानुबन्धात् परं ब्रह्मैव ज्योतिश्शब्दितमुपास्यमिति सिद्धम् ॥ २७ ॥ १२

  • ११ प्रातर्दनाधिकरणम् ॐ

पूर्वस्मिन्नधिकरणे प्रकृतत्रिपाद्ब्रह्मपरामर्शियच्छब्द समानाधिकरणकृता ज्योतिश्श्रु- तिस्तदर्थेत्युक्तं यथा, न तथेहासाधारणं किञ्चित् स्वस्ति प्राणस्य ब्रह्मत्वे मानं, येन तथा स्यादिति प्रत्युदाहरणसङ्गत्येदमाह - प्राणस्तथानुगमात् ॥ २८ ॥ अत्र पूर्वपक्षे प्राणेन्द्रदेवताजीवानामन्यतमोपास्तिः सिद्धान्ते ब्रह्मधीरिति फलभेदः । कौषीतक्युपनिषदि ( ३ - १, २, ३) इन्द्रप्रतर्दनाख्यायिकायां प्रतर्दनं प्रतीन्द्रवाक्यं श्रूयते- 'प्राणोऽस्मि प्रज्ञात्मेत्यादि । तत्र किं प्राणशब्देन वायुमात्रम भिधीयते उतेन्द्रदेवता उत जीवः अथवा परं ब्रह्मेति संशये 'अथ खल्वि'त्यादिलि- ङ्गाद् वायुमात्रमिति पूर्वः पक्षः । सिद्धान्तस्तु प्राणशब्देन ब्रह्मैवाभिधीयते । कुतः, तथानुगमात् तथा ब्रह्मपरत्वे 'हिततमं मन्यस' इत्यादिहिततमत्वाद्यनेकलिङ्गाना- मनुगमादवगमात् । अतोऽत्र प्राणो ब्रह्मैवेत्यर्थः ॥ २८ ॥ ननु अस्मीत्यहङ्कारवादलिङ्गादिन्द्रदेवताभिधीयेतेत्याशङ्कयाह- न वक्तुरात्मोपदेशादिति चेद्ध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥ वक्तुरिन्द्रस्य देवताविशेषस्यात्मोपदेशाद् 'मामेव विजानीहि' (कौ. ३-१) इत्यात्मत्वेनोपदिश्यमानत्वात् प्राणो न ब्रह्मेति चेद्, अत्रोच्यते अध्यात्मसम्बन्धभूमा ह्यस्मिन्निति । हि यस्माद् अस्मिन् अध्याये ‘यावद्ध्यस्मिञ्छरीरे प्राणो वसति तावदायुः' (कौ. ३-२) ' स एष प्राण एवं प्रज्ञात्मानन्दोऽजरोऽमृत' इत्यध्यात्मसम्बन्धस्य प्रत्य- गात्मसम्बन्धस्य भूमा बाहुल्यमुपलभ्यते । तस्मात् प्राणात्मकब्रह्मोपदेश एवायं न देवताविशेषोपदेश इति सिद्धम् ॥ २९ ॥ कथं तर्हि वक्तुरात्मोपदेशस्तत्राह- शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥ इन्द्रस्य वक्तुः 'मामेव विजानाहि' इत्युपदेशः शास्त्रदृष्ट्या ज्ञातव्यः, अहमेव