पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां प्रस्तुतम् । तेन प्रतिबन्धाभावे सत्यैहिकं विद्याजन्म श्रवणादिभिर्भवत्येव । सति तु प्रतिबन्धे अमुत्रापीत्यनियम एव, न त्विहैवेति नियमः । कुतः, तद्दर्शनात् 'गर्भ एवैतच्छयानो वामदेव एवमुवाच' (ऐ. ४-५.) इति 'श्रवणायापि बहुभिर्यो न लभ्यः' (क. २-७.) इत्यादिषु श्रुतिषु प्रतिबन्धाप्रतिबन्धाभ्यां तस्यानियमस्य दर्शनादित्यर्थः ॥ ५१ ॥

  • १७ मुक्तिफलानियमाधिकरणम् *

पूर्व यथा विद्याया ऐहिकामुष्मिकत्व विशेषनियम उक्तः, तथा तत्फलेऽपि मोक्षे कश्चिदुत्कर्षादिविशेषनियमः स्यादिति दृष्टान्तसङ्गत्येदमाह - एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥ अत्र पूर्वपक्षे कर्मसाध्या मुक्तिः, सिद्धान्ते ज्ञानैकाभिव्यक्ता मुक्तिरिति फलभेदः । मुक्तिरत्र विषयः । तस्यां किं विद्मावद् विशेषनियमोऽस्ति न वेति सन्दे- हे अस्तीति पूर्वः पक्षः । सिद्धान्तस्तु एवं विद्यावन्मुक्तिरूपफलस्यानियमः निर्विशे- षत्वमेव । कुतः, तदवस्थावधृतेः मुक्त्यवस्थाया निर्विशेषब्रह्मस्वरूपत्वेन 'ब्रह्म वेद ब्रह्मैव भवति' इत्यादिष्ववधारणास् । तस्माद्विद्यासमकालैव मुक्तिः । सा च निरति- शयानन्दब्रह्मस्वरूपैवेति सिद्धम् । पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ॥ १२ ॥ अस्मिन् पादे सप्तदशाधिकरणानि, सूत्राणि द्विपञ्चाशत् । अस्मिन्नध्याये सप्तषष्ट्यधिकरणानि, सूत्राणि षडशीत्युत्तरशतम् । यदैक्यमत्यै वैराग्यतत्त्वमर्थोपसंहृतिः । शान्त्यादि साधनं सर्वे प्रत्यपादि तदस्म्यहम् || इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां तृतीयाध्यायस्य चतुर्थः पादः । समाप्तव साधनाध्यायः । g अथ चतुर्थोऽध्यायः ।

  • १ आवृत्त्यधिकरणम् *

पूर्वत्र साधनं निरूपितम् इह तत्फलं निरूप्यत इति हेतुहेतुमद्भावस- १. 'पूर्व' क. पाठः.