पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये चतुर्थः पादः। कृत्स्नभावात् तु गृहिणोपसंहारः ॥ १८ ॥ यज्ञादीनामाश्रमान्तरविहितानां वा शमादीनां गृहस्थाश्रमे कार्येन सम्भ- बाद् गृहस्थाश्रमेणोपसंहारः, नतु संन्यासाभावाँदित्यर्थः ॥ ४८ ॥ मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥ मौनस्य गार्हस्थ्यस्य च यथा श्रुतिमत्त्वं तद्वद् ब्रह्मचारिवानप्रस्थाश्रमयोरपि श्रुतिषूपदेशात् ताभ्यां सह चत्वार आश्रमाः प्रसङ्गादुक्ताः । द्वयोर्बहुवचनं व्यक्ति- भेदाभिप्रायम् ॥ ४९॥

  • १५ अनाविष्कुर्वदधिकरणम् *

पूर्वत्र मौनशब्दस्य ज्ञानातिशये निदिध्यासने प्रसिद्धत्वान्निदिध्यासनं वि- धेयमित्युक्तम् । तद्वद् बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तद्विधेयमिति दृष्टान्तस- ङ्गत्येदमाह - अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥ अत्र पूर्वपक्षे कामचारादेर्विद्याङ्गत्वेनानुष्ठानं, सिद्धान्ते भाजयुद्धेरेवेति फल- भेदः । पूर्वोदाहृतवाक्ये बाल्यशब्देन किं बालस्य कर्म कामचारादिकं विधीयत, उत भावशुद्धिरिति संशये कामचारादिकमिति पूर्वः पक्षः । सिद्धान्तस्तु 'अव्यक्त- लिङ्गा अव्यक्ताचारा' (जा. ६) इति श्रुतेः स्वगुणैरनाविष्कुर्वन्नात्मानमप्रख्यापयन् भावशुद्धो भवेदित्येतावन्मात्रं विधीयते, तावन्मात्रस्य प्रधाने ज्ञानाभ्यासेऽन्वयाद्, न कामचारादिकं, तस्य तत्रानन्वयात्, शौचादिधर्मविधायिशास्त्रवाधाच्चेति ॥ ५०

  • १६ ऐहिकाधिकरणम् *

इत्थं संन्यासादिबाल्यान्तं साधनजातमभिधाय तत्साध्यविद्याजन्म विचा- र्यत इति हेतुहेतुमद्भावसङ्गत्येदमाह - ऐहिकमप्यप्रस्तुत प्रतिबन्धे तदर्शनात् ॥ ५१ ॥ अत्र पूर्वपक्षे श्रवणादेविद्या साधनत्वासिद्धिः, सिद्धान्ते प्रतिबन्धकवशाद विलम्बेऽपि तत्सिद्धिरिति फलभेदः । श्रवणादिभिः किमिहैव विद्योत्पत्तिरुत कढ़ा- चिदमुत्रापीति संशये, इहैव विद्याजन्मास्त्विति कामनया श्रवणादिषु प्रवृत्तरैहिक- मेव विद्याजन्मेति पूर्वः पक्षः । सिद्धान्तस्तु फलोन्मुखं विद्याविरुद्धफलेकं कर्म २. 'लकर्म' क. पाठ: १. 'इ' क. पाठः