पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये तृतीयः पाद: । सगुणनिर्गुणविद्ययोर्भेदान्नोपसंहार इति प्रत्युदाहरणसङ्गत्येदमाह - कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ अत्र पूर्वपक्षे क्वचिदाकाशस्य ध्येयत्वं क्वचित् तदाश्रयस्य ज्ञेयत्वमिति वि- शेषसिद्धिः, सिद्धान्ते ब्रह्मण एवाकाशशब्दितत्वादुक्तविशेषासिद्धिरिति फलभेदः । छान्दोग्ये (८-१-१) 'दहरोऽस्मिन्नन्तराकाशः' इति श्रुतस्य दहराकाशस्य सत्य- कामत्वादयो गुणा आम्नाता:, बृहदारण्यके (४-४-२२) तु य एषोऽन्तर्हदय आ- काशः' इत्यभिहितस्याकाशाश्रयस्य सर्ववशित्वादयो गुणाः । ते परस्परमुपसंहर्त- व्या न वेति सन्देहे नोपसंहर्त्तव्या इति पूर्वः पक्षः । सिद्धान्तस्तु कामादि सत्यकामत्वादिगुणजातमितरत्र बृहदारण्यके उपसंहर्तव्यम् । यच्च सर्ववशित्वादिकं तदपि तत्र छान्दोग्ये उपसंहर्तव्यम् । कुतः, आयतनादिभ्य उभयत्राविशि- ष्टेभ्यो हृदयायतनसेतुत्वव्यपदेशादिभ्यो हेतुभ्यः । नन्वेवं वेद्याभेदेऽपि सगुणानिर्गु- णत्वेन विद्ययोर्भेदात् कथमुपसंहार इति चेद् बाढम् । न वयमुपासनार्थमुपसंहारं ब्रूमः, अपि तु विद्यास्तुत्यर्थे, येन विद्याभेदे गुणोपसंहारो न स्यात् । अतो न काचनानुपपत्तिरिति ॥ ३९ ॥

  • २६ अलोपाधिकरणम् *

पूर्व विद्याभेदेऽपि स्तुत्यर्थत्वेन गुणोपसंहारो यथाभ्यधायि, तथा भोजन- लोपेऽपि पूर्वभोजनस्तुत्युपपत्त्यर्थं प्राणाग्निहोत्र इति दृष्टान्तसङ्गत्येदमाह- आदरादलोपः ॥ ४० ॥ - अत्र पूर्वपक्षे प्रतिनिधिन्यायेन प्राणाग्निहोत्रकर्तव्यतावश्यकत्वं, सिद्धान्ते तदनवतारात् तदनावश्यकत्वमिति फलभेदः । छान्दोग्ये (५-१९-१) वैश्वानर- विद्यायां प्राणाग्निहोत्रं श्रूयते - 'स यां प्रथमामाहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहा' इत्यादिना । तत्र किं भोजनलोपे प्राणाग्निहोत्रस्य लोप उतालोप इति स- न्देहे भोजनलोपेऽग्निहोत्रस्यालोपः । कुतः, 'पूर्वोऽतिथिभ्योऽश्नीयाद्' इति जाबाल- श्रुत्या पूर्वभोजनस्य प्राथम्यरूपधर्मलोपमसहमानया प्राणाग्निहोत्रे आदरकरणात् । नहि धर्मलेोपमसहमाना श्रुतिर्धर्मिणः प्राणाग्निहोत्रस्य लोपं सहते । अतोऽलोप इति पूर्वः पूक्षः ॥ ४० ॥ सिद्धान्तस्तु - उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥