पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकार्या व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७॥ अत्र पूर्वपक्षे मतेरैकरूप्ये लाघवं, सिद्धान्ते मरूप्ये व्यतिहारसार्थक्य- मिति फलभेदः । ऐतरेयके श्रूयते – 'तद्योऽहं सोऽसौ योऽसौ सोऽहम्' इति । तत्र किं व्यतिहारेण मतिरेकरूपा विधीयत उत द्विरूपेति विशये एकरूपेति पूर्वः पक्षः । सिद्धान्तस्तु व्यतिहारोऽत्रोपासनार्थमुपदिश्यते इतरवद्, यथेतरे सर्वात्म- त्वादयो गुणा उपासनार्थमुपदिश्यन्ते तद्वत् । तथा हि विशिषन्ति समाम्नातारः ‘त्वमहमस्म्यहं च त्वमसि' इत्युभयोच्चारणेन । तच्च विशेषणं द्विरूपायां मतौ क- र्तव्यायामर्थवद् भवति । अन्यथा हीदं विशेषणोभयाम्नानमनर्थकं स्याद् । अतो मतिर्द्विरूपैवेति सिद्धम् ॥ ३७ ॥ २४ सत्यायधिकरणम् पूर्व जीवब्रह्मणोर्व्यतिहारोक्तिभेदाद्विद्याद्वैरूप्यं यथाभ्यधायि तथेहापि स- त्यविद्यायां लोकाञ्जयति (बृ. ५-४-१) इति तदनन्तरविद्यायां 'हन्ति पाप्मानम्' (बृ. ५-५-३,४) इत्युभयत्र लोकजयपापनिवृत्तिरूपफलोक्तिभेदाद्विद्याभेद इति दृष्टान्तसङ्गत्येदमाह- सैव हि सत्यादयः ॥ ३८ ॥ ww अत्र पूर्वपक्षे गुणानामनुष्ठानव्यवस्था, सिद्धान्ते त्वनुष्ठानैक्यमिति फल- भेदः । बृहदारण्यके (५-४-१) श्रूयते – 'महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म' इति सत्यविद्यां विधाय तदनन्तरं 'तद्यत्तत्सत्यमसौ स आदित्यः' (५-५-२) इत्या- दि । तत्र सत्यविद्यातस्तदनन्तरविद्या भिद्यते न वेति सन्देहे भिद्यत इति पूर्वः पक्षः । सिद्धान्तस्तु इयमनन्तरविद्या सैव सत्यविद्यैव, न ततो भिद्यते । कुतः, हिशब्दो हेतौ । 'तद्यत् तत् सत्यमिति प्रकृतस्यैवोपास्यस्य हिरण्यगर्भस्याकर्ष- णाद्धेतोः । न ह्युपास्याभेदे विद्याभेदो युक्तः । नच फलभेदाद्विद्याभेदो युक्त इति वाच्यम् । सत्यविद्याप्रकरणे पठितस्य फलस्य सर्वस्यापि सत्यविद्याफलत्वात् । अतो विद्यैक्यात् पूर्वापरवाक्यस्थाः सर्वे सत्यादयो गुणा उपसंहर्त्तव्या इति सिद्धम् ॥ ३८ ॥

  • २५ कामाद्यधिकरणम् *

पूर्व वेद्यामेदेन विद्यैक्याद गुणोपसंहार इत्यभाणि । तत्रापि छान्दोग्ये दहराकाशस्यैवोपास्यत्वाद् वाजसनेयके त्वाकाशविशिष्टस्यात्मनो ज्ञेयत्वाद्वेद्यभेदेन