पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये तृतीयः पाद: । १२५ च्छन्दस्स्तुत्युपगानवद् | यथा कुशादिस्थले शाखान्तरीयविशेषश्रवणं निर्णायकं तथेहापि कचिद्विधूननसन्निधौ श्रयमाणमुपायनं सर्वत्र विधूननस्य हानलक्षकत्वे निश्चायकमित्यर्थः । तदुक्तमिति पूर्ववव्याख्येयम् ॥ २६ ॥ १६ साम्परायाधिकरणम् पूर्व विद्यायाः कर्महानिहेतुत्वं सिद्धं कृत्वा केवलहानश्रवणे उपायनोपसं- हार उक्तः । सम्प्रति विद्यायाः कर्महानिहेतुत्वं नास्तीत्याक्षेपसङ्गत्येदमाह- साम्पराये तर्तव्याभावात् तथा ह्यन्ये ॥ २७ ॥

अत्र पूर्वपक्षे विद्यासामर्थ्यानादरः, सिद्धान्ते तदादर इति फलभेदः । कौषी- तकिंश्रुतौ (विरजां नदीं) ‘मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते' (१ ४) इति पर्यङ्कस्थब्रह्मोपासकस्य कर्महानिः श्रूयते । तत्र किं विरजानदीतरणानन्तरं कर्महा- निरुत देहत्यागात्प्राक्काल इति विशये श्रुतिबलान्नदीतरणानन्तरमेवेति पूर्वः पक्षः । सिद्धान्तस्तु साम्पराये ढेहत्यागात् प्राक्परलोकसाधनीभूतविद्याकाल एव कर्महानिर्यु- क्ता । कुतः, तर्तव्याभावात् । नदीतरणानन्तरं पुण्यपापकर्मणस्तर्तव्यस्य प्राप्तव्यस्य फलान्तरस्याभावात् । ननु कर्महानिहेतोरभावादिति चेद्, न, कर्महानिहेतोर्विद्या- याः प्राक्सत्त्वात् । कर्महानिं विना नदीतरणानुपपत्तेश्च । ततो जीवत एव विद्या- सामर्थ्यात् कर्महानिः । तथा ह्यन्ये शाखिनस्ताण्ड्यादयो जविद्दशायामेव कर्महा- निम् 'अश्व इव रोमाणि' इत्यादावधीयत इत्यर्थः ॥ २७ ॥ ननु कर्महानेर्विद्याफलत्वे ब्रह्मप्राप्तेरिव देहत्यागोत्तरकालीनत्वं स्यादत आह- - छन्दत उभयाविरोधात् ॥ २८ ॥ छन्दतः स्वेच्छातो विद्यानुष्ठानं जीवत एवेति तद्धेतुककर्मक्षयो जीवत एव युक्तः, सति हेतौ कार्यविलम्बायोगात् । एवं सति विद्याकर्मक्षययोर्निमित्तनैमित्तिक- भावे कौषीतकिताण्डिश्रुत्योरुभयोरविरोधो भवतीत्यर्थः । ब्रह्मप्राप्तेहत्यागं विनानु- पपत्तेः प्रकृते चानुपपत्त्यभावाज्जीवत एव कर्मक्षय इति भावः ॥ २८ ॥

  • १७ गत्यर्थवत्त्वाधिकरणम् *

इत्थं प्रासङ्गिकं विद्योदयानन्तरमेव कर्महानमित्यभिधाय यथा हानसन्निधौ १. ‘ताण्ड्यादिकौषीतकिच’ कपुस्तके पाठः,