पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्रप्रकाशिकाय - दुष्कृतम्' इति कौषीतकिरहस्ये (१-४) हानसन्निधौ श्रयमाणस्य हानशब्देनापेक्षि- तस्योपादानार्थकोपायनशब्दस्य हानं प्रति शेषत्वावगमादित्यर्थः । अश्वरोमदृष्टा- न्तेन विधूतयोः पुण्यपापयोः परत्रावस्थानसापेक्षस्वात् पररुपादानमावश्यकामलि भावः । शाखान्तरस्थोऽपि विशेषः शाखान्तरेऽप्यपेक्षित उपसंहरणीय इत्यत्र दृष्टा- न्तमाह - कुशाच्छन्दस्स्तुत्युपगानवत् कुशावत् छन्दोवत् स्तुतिबदुपगानवत् । तत्र यथा 'कुशा वानस्पत्या' इति भाल्लविनां श्रुतौ कुशानामविशेषेण वनस्पतियोनित्वश्न- वणे शाट्याय निनामौदुम्बरा इति बिशेषवचनादौदुम्बर्यः कुशा आश्रीयन्ते, यथा ‘छ- न्दोभिः स्तुवत' इत्यत्र देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे 'देवच्छन्दांसि पूर्वाणि' इति पैनिश्रुत्या प्रतीयते, यथा षोडाशिनः पात्रविशेषस्य ग्रहणेऽङ्गभूतं स्तोत्रं कदा कर्तव्यमित्यपेक्षायां छन्दोगानां कालाविशेषप्राप्तौ 'समयाध्युषिते सूर्ये' इत्यादितैत्तिरीयकश्रुत्या कालावशेषः प्रतीयते, यथा 'ऋत्विज उपगायन्ती' ति सा- मान्यवाक्यं शाखान्तरीयं 'नाध्वर्युरुपगायती' ति विशेषमपेक्ष्याध्वर्युवर्जिता ऋ- त्विज उपगायन्तीत्येतदर्थपरतया निश्चीयते, एवं च यथा कुशादिषु श्रुत्यन्तरगत विशेषान्वयः, तथा हानावुपायनान्वय इति सिद्धम् । श्रुत्यन्तरगतं विशेषं श्रुत्यन्त- रेऽनभ्युपगच्छतः सर्वत्राष्टदोषदुष्टविकल्पः स्यात् । स चान्याय्यः सत्यां गतौ । तदुक्तं द्वादशलक्षण्यां जैमिनिना - 'प्रतिषेधे विकल्पः स्याद्' (१०-८-१५) इति ॥ प्रथमवर्णकम् ॥ - पूर्व मन्त्रादीनां विद्यासन्निधेर किञ्चित्करत्वमुक्तं यथा, तथात्रापि विधूनन- शब्दस्योपायनशब्दसन्निधिरप्रयोजक इति दृष्टान्तसङ्गत्या वर्णकान्तरमाह - हानौ तूपायनशब्द शेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत् तदुक्तम् । अत्र पूर्वपक्षे विद्यावशात् सुकृतादिहान्यसिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । उदाहृतश्रुतिप्वेव किं पुण्यपापयोविंधूननं हानमभिप्रेतम् उत तयोः फलतश्चा- लनमिति विशये चालनमेवेति पूर्वः पक्षः । सिद्धान्तस्तु हानावेवायं विधूननशब्दो वर्त्तितुमर्हति । कुतः, उपायनशब्दशेषत्वाद् उपायनशब्दसन्निधौ श्रूयमाणस्य विधून- नशब्दस्योपायनशब्द प्रति शेषत्वादित्यर्थः । एवञ्चोपादानात्मकोपायनस्य हानं वि. नासम्भवाद् विधूननशब्देन 'धूल् कम्पन' इति धात्वर्थचलनवाचकेनापि हानमेव लक्ष्यमिति भावः । ननूपायनशब्दसावधौ श्रयमाणविधूननशब्दस्य हानलक्षक- त्वेऽपि केवलविघ्ननशब्दस्य न तल्लक्षकत्वं निश्चायकाभावादित्याशङ्कयाह - कुशा-