पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये द्वितीयः पादः । ‘प्रकाशवच्चावैशेष्यम् ’ ( ३-२- २५ ) इत्यत्र पूर्वं भेदः काल्पनिकः, अभे- दः पारमार्थिक इति यदुक्तं स एव सिद्धान्तोऽभ्युपेयः ॥ २९ ॥ किञ्च- प्रतिषेधाच ॥ ३० ॥ 'नान्योऽतोऽस्ति द्रष्टा' (बृ. ३-७-२३) इत्यादिशास्त्रेण परमार्थव्यतिरि- क्तस्य चेतनस्य 'नेति नेती' त्यादिशास्त्रेण प्रपञ्चस्य च प्रतिषेधाद् ब्रह्माद्वितीयमि- त्ययमेव सिद्धान्तः । तस्माच्छृतिबलान्निर्विशेषमेकमेव ब्रह्मेति सिद्धम् ॥ ३० ॥ •सेतून्मानाधिकरणम् *

७ पूर्वं ‘नेति नेती’ति ब्रह्मातिरिक्तं वस्तु निषेध्यमित्युक्तमयुक्तं ब्रह्मणः सेतु- त्वोन्मानादिव्यपदेशेन वस्त्वन्तरसत्त्वावगमाद, द्यु॒भ्वाद्यधिकरणे सेतुत्वस्य गौणत्वेन नीतत्वेऽप्युन्मानादीनां गतेरदर्शनादित्याक्षेपसङ्गत्वेदमाह - परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥ अत्र पूर्वपक्ष उन्मानादिश्रुतीनां मुख्यत्वात् सविशेषं ब्रह्मेति फलं, सिद्धान्ते तूक्ताद्वितीयब्रह्मसिद्धिरिति विवेकः । अत्र ब्रह्मातिरिक्तं वस्त्वस्ति न वेति सन्देहे पूर्वः पक्षः । अतोऽस्माद् ब्रह्मणः सकाशात् परं वस्त्वस्ति, 'अथ य आत्मा स सेतुः’ (छा. ८-४-१) इति ब्रह्मणः सेतुत्वव्यपदेशात्, तथा 'ब्रह्म चतुष्पाद्' (छा. ३- १८-२) इति श्रुतावुन्मानव्यपदेशादेतावदिदमिति परिच्छिन्नत्वव्यपदेशात्, सुषुप्तौ 'प्राज्ञेनात्मना शारीरः सम्परिष्वक्त:' (बृ. ४-३-२१) इत्यादिना ब्रह्मणः सम्बन्ध- व्यपदेशाद्, आदित्ये हिरण्मयं पुरुषमीश्वरं व्यपदिश्य ततो भेदेनाक्षिस्थपुरुषस्य व्यपदेशात् सद्वितीयं ब्रह्मेति सिद्धम् ॥ ३१ ॥ एवं पूर्वपक्षे सिद्धान्तः- S - सामान्यात्तु ॥ ३२ ॥ तुशब्दः पूर्वपक्षनिरासार्थः ! मृद्दार्वादिमये हि सेतुशब्दो रूढो लोके । न हि ब्रह्मणस्तादृशं सेतुत्वमस्ति । यथा सेतोर्जलव्यवस्थापकत्वम् एवं ब्रह्मणोऽपि जगन्मर्यादाव्यवस्थापकत्वेन प्रसिद्धसेतुसामान्यात् साम्यात् सेतुत्वव्यपदेश इ- त्यर्थः ॥ ३२ ॥ उन्मानव्यपदेशोऽपि न मुख्य इत्याह- १. ' त्वोपगमात् ' कपुस्तके पाठः २. शारीर इति पदं मुद्रितोपनिषदादौ न दृश्यते,