ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां ननु जीवब्रह्मणोर्ध्यातृध्येयभावाङ्गीकारे भेदः स्यादित्याशङ्कयाह -- प्रकाशवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ यथा सौरः प्रकाशोऽङ्गुल्यायुपाधौ कर्मणि भिन्न इव प्रतिभाति, वस्तुतस्त्वे- करूपः, तद्वत् प्रकाशः परमात्मापि ध्यानाद्यपाधौ कर्मणि भिन्न इव भाति, वस्तुत- स्त्ववैशेष्यमेकरूपत्वमात्मनः । कुतः, अभ्यासात् 'तत्त्वमसी' त्याद्यभेदश्रुत्यभ्यासा- दित्यर्थः ॥ २५ ॥ किश्च- अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥ अतश्च भेदस्यौपाधिकत्वाद्विद्यया भेदं विधूय जीवोऽनन्तेन परमात्मनैकतां गच्छति । तथा हि लिङ्गं 'स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' (मु. ३-२- ९) इत्याद्यपूर्वार्थज्ञापकमित्यर्थः ॥ २६ ॥ इत्थं जीवब्रह्मणोः पारमार्थिकाभेदमभिषाय स्वमतपरिशुद्धये भेदाभेदवाद- भुपन्यस्यति- उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥ घ्यातृध्येयभावादिना भेदस्याभेदस्य च श्रुतौ व्यपदेशाद् जीवेश्वरयोर्भेदा- भेदौ भवतः । तुशब्दः सिद्धान्तवैषम्यद्योतनार्थः । अहिकुण्डलवद् अहेः संस्थान- विशेषो हि कुण्डलं, तयोरहित्वेनाभेदः कुण्डलत्वेन भेदो यथा, तद्वदित्यर्थः ॥ २७॥ धर्मभेदेन भेदाभेदाविति पक्षमभिधायैकधर्मावच्छेदेनैव भेदाभेदाविति प- क्षान्तरमाह- प्रकाशाश्रयवडा तेजस्त्वात् ॥ २८ ॥ यथा सावित्रः प्रकाशस्तदाश्रयश्च सविता, तयोर्नात्यन्तभेदस्तेजस्त्वाविशे- षात्, तथापि भेदश्च प्रतीयते, एवं चैकतेजस्त्वावच्छेदेनैव प्रमाणबलाद् भेदाभेदौ, तद्वज्जीवेश्वरयोर्भेदाभेदावित्यर्थः ॥ २८ ॥ ननु भेदस्य पारमार्थिकत्वे ज्ञाननिवर्त्त्यत्वासम्भवान्मोक्षो न स्यात् । एक- धर्मावच्छेदेन भेदाभेदयोरेकत्राङ्गीकाराल्लोके विरोधकथैव न स्यादित्यादिदोषजातं परमते मत्वा निरवद्यं स्वसिद्धान्तमाह - पूर्ववद्वा ॥ २९ ॥ १. 'शादिवच्चा' इति तु मुद्रितपुस्तकेषु पाठो दृश्यते.
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१२२
दिखावट