१०६ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय पाधिकं सविशेषत्वमादाय सूर्यकादिवत् जलगतसूर्यप्रतिबिम्बवदित्युपमोपादीयते मोक्षशास्त्रेषु- 'यथा ह्ययं ज्योतिरात्मा विवस्वानपोभिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा' (ब्र. बिं. १२) इत्यादिषु । एवं चैतद्द्द्दृष्टान्तबलादपि ब्रह्मणो निर्विशेषत्वमिति सूत्राभिप्रायः ॥ १८ ॥ दृष्टान्तवैषम्यं शङ्कते- अम्बुवदग्रहणात् तु न तथात्वम् ॥ १९ ॥ यथाम्बु सूर्यान्मूर्ताद् भिन्नं दूरस्थं मूर्त्त गृह्यते तद्वदमूर्त्तात् सर्वात्मकादात्म- नो भिन्नदूरस्थोपाधेरग्रहणान्न तथात्वं न सूर्यतुल्यत्वमिति शङ्कार्थः ॥ १९ ॥ अत्रोत्तरमाह - वृद्धिवासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥ १ यथा सूर्यप्रतिबिम्बस्य जलान्तर्भूतस्य जलगतवृद्धिहासभाक्तुं न वास्तवम्, एवं निर्विशेषस्य परमात्मनो देहाद्युपाध्यन्तर्भावाद् देहादिगतवृद्धिह्रासभाक्तुं न स्वा- भाविका मित्येतावतांशेनोभयोर्दृष्टान्तदान्तिकयोः सामञ्जस्याद् भवति सूर्यादिदृष्टा- न्तः । न हि दृष्टान्तदान्तिकयोः सर्वोशेन समत्वं शक्यते शक्रेणापि वक्तुं, तत्त्वे तदुच्छेदादिति भावः ॥ २० ॥ किञ्चागमैकसमधिगम्येऽर्थे न पर्यनुयोग इत्याह - दर्शनाच्च ॥ २१ ॥ 1 परस्य ब्रह्मणो देहान्तरानुप्रवेशस्य प्रतिबिम्बभावरूपस्य 'पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशद् ॥' (बृ. २-५-१८) इत्यादिश्रुतौ दर्शनात् । अतो निर्विशेषमेव चैतन्यैकरसं ब्रह्मेति सिद्धम् ॥ २१ ॥ ६ प्रकृतैतावत्त्वाधिकरणम् पूर्व निषेधश्रुतिभिर्ब्रह्म निर्विशेषं सिध्यतीत्युक्तंमयुक्तं ताभिर्ब्रह्मणोऽपि नि- षिद्धत्वादित्याक्षेपसङ्गत्येदमाह - प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ १. 'तम् । तदयु' खपुस्तके पाठः, २. ' णो निषेधसत्त्वादि' कपुस्तके पाठः
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१२०
दिखावट